Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ हनूमद्बलसन्धुक्षणम् ॥
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥
वीर वानरलोकस्य सर्वशास्त्रविशारद ।
तूष्णीमेकान्तमाश्रित्य हनुमान् किं न जल्पसि ॥ २ ॥
हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ३ ॥
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ॥ ४ ॥
बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजगानुद्धरन् पक्षी महावेगो महायशाः ॥ ५ ॥
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।
विक्रमश्चापि वेगश्च न ते तेनावहीयते ॥ ६ ॥
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव ।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७ ॥
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ ८ ॥
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।
अभिशापादभूत्तात वानरी कामरूपिणी ॥ ९ ॥
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।
कपित्वे चारुसर्वाङ्गी कदाचित् कामरूपिणी ॥ १० ॥
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ।
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ॥ ११ ॥
अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ।
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ॥ १२ ॥
स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ।
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ॥ १३ ॥
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ।
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ॥ १४ ॥
दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ।
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ॥ १५ ॥
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ।
सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्यमब्रवीत् ॥ १६ ॥
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ।
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ॥ १७ ॥
न त्वां हिंसामि सुश्रोणि माऽभूत्ते सुभगे भयम् ।
मारुतोऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ॥ १८ ॥
वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति ।
महासत्त्वो महातेजा महाबलपराक्रमः ॥ १९ ॥
लङ्घने प्लवने चैव भविष्यति मया समः ।
एवमुक्ता ततस्तुष्टा जननी ते महाकपे ॥ २० ॥
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् ।
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ॥ २१ ॥
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ।
शतनि त्रीणि गत्वाऽथ योजनानां महाकपे ॥ २२ ॥
तेजसा तस्य निर्धूतो न विषादं गतस्ततः ।
तावदापततस्तूर्णमन्तरिक्षं महाकपे ॥ २३ ॥
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ।
तदा शैलाग्रशिखरे वामो हनुरभज्यत ॥ २४ ॥
ततो हि नामधेयं ते हनुमानिति कीर्त्यते ।
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ॥ २५ ॥
त्रैलोक्ये भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः ।
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति ॥ २६ ॥
प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः ।
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ॥ २७ ॥
अशस्त्रवध्यतां तात समरे सत्यविक्रम ।
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ॥ २८ ॥
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ।
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ॥ २९ ॥
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ।
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ॥ ३० ॥
भवान् जीवातवेऽस्माकमञ्जनागर्भसम्भवः ।
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ ३१ ॥
वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ।
दक्षो विक्रमसम्पन्नः पक्षिराज इवापरः ॥ ३२ ॥
त्रिविक्रमे मया तात सशैलवनकानना ।
त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ ३३ ॥
तथा चौषधयोऽस्माभिः सञ्चिता देवशासनात् ।
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ॥ ३४ ॥
स इदानीमहं वृद्धः परिहीनपराक्रमः ।
साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ॥ ३५ ॥
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।
त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहीनी ॥ ३६ ॥
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।
परा हि सर्वभूतानां हनुमन् या गतिस्तव ॥ ३७ ॥
विषण्णा हरयः सर्वे हनूमन् किमुपेक्षसे ।
विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ॥ ३८ ॥
ततस्तु वै जाम्बवता प्रचोदितः
प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षयंस्तां हरिवीरवाहिनीं
चकार रूपं पवनात्मजस्तदा ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥
सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.