Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ सुग्रीवगर्जनम् ॥
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् ।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ १ ॥
विसार्य सर्वतो दृष्टिं कानने काननप्रियः । [विचार्य]
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ॥ २ ॥
ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ।
परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ॥ ३ ॥
गर्जन्निव महामेघो वायुवेगपुरस्सरः ।
अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा ॥ ४ ॥
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ।
हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ॥ ५ ॥
प्राप्तः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् ।
प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा ॥ ६ ॥
सफलां तां कुरु क्षिप्रं लतां काल इवागतः ।
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ॥ ७ ॥
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः ।
कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया ॥ ८ ॥
लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव ।
शोभसे ह्यधिकं वीर लतया कण्ठसक्तया ॥ ९ ॥
विपरीत इवाकाशे सूर्यो नक्षत्रमालया ।
अद्य वालिसमुत्थं ते भयं वैरं च वानर ॥ १० ॥
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण सम्युगे ।
मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् ॥ ११ ॥
वाली विनिहतो यावद्वने पांसुषु वेष्टते ।
यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते ॥ १२ ॥
ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च मा भवान् ।
प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः ॥ १३ ॥
तेनावेहि बलेनाद्य वालिनं निहतं मया ।
अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता ॥ १४ ॥
धर्मलोभपरीतेन न च वक्ष्ये कथञ्चन ।
सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम् ॥ १५ ॥
प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ।
तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः ॥ १६ ॥
सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ।
जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा ॥ १७ ॥
निष्पतिष्यत्यसङ्गेन वाली स प्रियसम्युगः ।
रिपूणां धर्षणं शूरा मर्षयन्ति न सम्युगे ॥ १८ ॥
जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ।
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ॥ १९ ॥
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ।
तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥ २० ॥
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ।
द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः ।
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥ २१ ॥
ततः स जीमूतगणप्रणादो
नादं ह्यमुञ्चत्त्वरया प्रतीतः ।
सूर्यात्मजः शौर्यविवृद्धतेजाः
सरित्पतिर्वाऽनिलचञ्चलोर्मिः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥ १४ ॥
सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.