Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ वालिबलाविष्करणम् ॥
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।
सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ॥ १ ॥
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः ।
त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥ २ ॥
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ।
तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥ ३ ॥
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥ ४ ॥
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥ ५ ॥
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः ।
वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः ॥ ६ ॥
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः ।
बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ७ ॥
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ।
जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ ८ ॥
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम् ।
मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ ९ ॥
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ।
अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ १० ॥
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।
श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ ११ ॥
शैलराजो महारण्ये तपस्विशरणं परम् ।
शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ १२ ॥
गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः ।
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥ १३ ॥
तं भीत इति विज्ञाय समुद्रमसुरोत्तमः ।
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥ १४ ॥
ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः ।
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥ १५ ॥
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ।
हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ॥ १६ ॥
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ।
रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ।
उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ १८ ॥
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ।
तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ १९ ॥
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ।
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ २० ॥
वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः ।
अध्यास्ते वानरः श्रीमान् किष्कन्धामतुलप्रभाम् ॥ २१ ॥
स समर्थो महाप्राज्ञस्तव युद्धविशारदः ।
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥ २२ ॥
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।
स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥ २३ ॥
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः ।
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥ २४ ॥
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः ।
प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥ २५ ॥
ततस्तद्द्वारमागम्य किष्किन्धाया महाबलः ।
ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा ॥ २६ ॥
समीपस्थान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः ।
विषाणेनोल्लिखन् दर्पात् तद्द्वारं द्विरदो यथा ॥ २७ ॥
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ।
निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ २८ ॥
मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् ।
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ २९ ॥
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि ।
दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल ॥ ३० ॥
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ।
उवाच दुन्दुभिर्वाक्यं रोषात् संरक्तलोचनः ॥ ३१ ॥
न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि ।
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ३२ ॥
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ।
गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ ३३ ॥
दीयतां सम्प्रदानं च परिष्वज्य च वानरान् ।
सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ॥ ३४ ॥
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे ।
क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥ ३५ ॥
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् ।
हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ ३६ ॥
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् ।
विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ॥ ३७ ॥
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि सम्युगे ।
मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम् ॥ ३८ ॥
तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चनीम् ।
पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ॥ ३९ ॥
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ।
आविध्यत तदा वाली विनदन् कपिकुञ्जरः ॥ ४० ॥
वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम् ।
श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥ ४१ ॥
तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः ।
युद्धं समभवद्घोरं दुन्दुभेर्वानरस्य च ॥ ४२ ॥
अयुध्यत तदा वाली शक्रतुल्यपराक्रमः ।
मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥ ४३ ॥
परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा ।
आसीददसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥ ४४ ॥
व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः ।
तं तु दुन्दुभिमुत्पाट्य धरण्यामभ्यपातयत् ॥ ४५ ॥
युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा ।
पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥ ४६ ॥
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।
चिक्षेप बलवान् वाली वेगेनैकेन योजनम् ॥ ४७ ॥
तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः ।
प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥ ४८ ॥
तान् दृष्ट्वा पतितांस्तस्य मुनिः शोणितविप्रुषः ।
क्रुद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥ ४९ ॥
येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना ।
कोऽयं दुरात्मा दुर्बद्धिरकृतात्मा च बालिशः ॥ ५० ॥
इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः ।
महिषं पर्वताकारं गतासुं पतितं भुवि ॥ ५१ ॥
स तु विज्ञाय तपसा वानरेण कृतं हि तत् ।
उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥ ५२ ॥
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ।
वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ॥ ५३ ॥
सम्भग्नाः पादपाश्चेमे क्षिपतेहासुरीं तनुम् ।
समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि ॥ ५४ ॥
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ।
ये चापि सचिवास्तस्य संश्रिता मामकं वनम् ॥ ५५ ॥
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ।
यदि तेऽपीह तिष्ठन्ति शपिष्ये तानपि ध्रुवम् ॥ ५६ ॥
वनेऽस्मिन् मामकेऽत्यर्थं पुत्रवत् परिपालिते ।
पत्राङ्कुरविनाशाय फलमूलाभवाय च ॥ ५७ ॥
दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् ।
बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥ ५८ ॥
ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् ।
निश्चक्रमुर्वनात्तस्मात्तान् दृष्ट्वा वालिरब्रवीत् ॥ ५९ ॥
किं भवन्तः समस्ताश्च मतङ्गवनवासिनः ।
मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥ ६० ॥
ततस्ते कारणं सर्वं तदा शापं च वालिनः ।
शशंसुर्वानराः सर्वे वालिने हेममालिने ॥ ६१ ॥
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् ।
स महर्षिं तदासाद्य याचते स्म कृताञ्जलिः ॥ ६२ ॥
महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा ।
शापधारणभीतस्तु वाली विह्वलतां गतः ॥ ६३ ॥
ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् ।
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥ ६४ ॥
तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम् ।
विचरामि सहामात्यो विषादेन विवर्जितः ॥ ६५ ॥
एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते ।
वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥ ६६ ॥
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ।
यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ ६७ ॥
एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् ।
कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥ ६८ ॥
तथा ब्रुवाणं सुग्रीवं प्रहसंल्लक्ष्मणोऽब्रवीत् ।
कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥ ६९ ॥
तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा ।
एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ ७० ॥
रामोऽपि दारयेदेषां बाणेनैकेन चेद्द्रुमम् ।
वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥ ७१ ॥
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण ।
उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुःशते ॥ ७२ ॥
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् ।
ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत् ॥ ७३ ॥
शूरश्च शूरघाती च प्रख्यातबलपौरुषः ।
बलवान् वानरो वाली सम्युगेष्वपराजितः ॥ ७४ ॥
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ।
यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥ ७५ ॥
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् ।
विचिन्तयन्न मुञ्चामि ऋश्यमूकमहं त्विमम् ॥ ७६ ॥
उद्विग्नः शङ्कितश्चापि विचरामि महावने ।
अनुरक्तैः सहामात्यैर्हनुमत् प्रमुखैर्वरैः ॥ ७७ ॥
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल ।
त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ ७८ ॥
किन्तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः ।
अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥ ७९ ॥
न खल्वहं त्वां तुलये नावमन्ये न भीषये ।
कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ॥ ८० ॥
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ।
सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ ८१ ॥
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।
स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥ ८२ ॥
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर ।
प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥ ८३ ॥
एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः ।
राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ॥ ८४ ॥
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ।
असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् ॥ ८५ ॥
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ।
लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् ॥ ८६ ॥ [-मब्रवीत्]
हरीणामग्रतो वीरं तपन्तमिव भास्करम् ।
आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ॥ ८७ ॥
लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव ।
क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन ॥ ८८ ॥
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् ।
आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् ॥ ८९ ॥
स एव संशयस्तात तव तस्य च यद्बले ।
सालमेकं तु निर्भिन्द्या भवेद्व्यक्तिर्बलाबले ॥ ९० ॥
कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम् ।
आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥ ९१ ॥
इमं हि सालं सहितस्त्वया शरो
न संशयोऽत्रास्ति विदारयिष्यति ।
अलं विमर्शेन मम प्रियं ध्रुवं
कुरुष्व राजात्मज शापितो मया ॥ ९२ ॥
यथा हि तेजःसु वरः सदा रवि-
-र्यथा हि शैलो हिमवान् महाद्रिषु ।
यथा चतुष्पात्सु च केसरी वर-
-स्तथा नराणामसि विक्रमे वरः ॥ ९३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥ ११ ॥
सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.