Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सुशान्तोवाच ।
जय हरेऽमराधीशसेवितं
तव पदाम्बुजं भूरिभूषणम् ।
कुरु ममाग्रतः साधुसत्कृतं
त्यज महामते मोहमात्मनः ॥ १ ॥
तव वपुर्जगद्रूपसम्पदा
विरचितं सतां मानसे स्थितम् ।
रतिपतेर्मनो मोहदायकं
कुरु विचेष्टितं कामलम्पटम् ॥ २ ॥
तव यशो जगच्छोकनाशकं
मृदुकथामृतं प्रीतिदायकम् ।
स्मितसुखेक्षितं चन्द्रवन्मुखं
तव करोत्यलं लोकमङ्गलम् ॥ ३ ॥
मम पतिस्त्वयं सर्वदुर्जयो
यदि तवाप्रियं कर्मणाचरेत् ।
जहि तदात्मनः शत्रुमुद्यतं
कुरु कृपां न चेदीदृगीश्वरः ॥ ४ ॥
महदहम्युतं पञ्चमात्रया
प्रकृतिजायया निर्मितं वपुः ।
तव निरीक्षणाल्लीलया जग-
-त्स्थितिलयोदयं ब्रह्मकल्पितम् ॥ ५ ॥
भूवियन्मरुद्वारितेजसां
राशिभिः शरीरेन्द्रियाश्रितैः ।
त्रिगुणया स्वया मायया विभो
कुरु कृपां भवत्सेवनार्थिनाम् ॥ ६ ॥
तव गुणालयं नाम पावनं
कलिमलापहं कीर्तयन्ति ये ।
भवभयक्षयं तापतापिता
मुहुरहो जनाः संसरन्ति नो ॥ ७ ॥
तव जपः सतां मानवर्धनं
जिनकुलक्षयं देवपालकम् ।
कृतयुगार्पकं धर्मपूरकं
कलिकुलान्तकं शं तनोतु मे ॥ ८ ॥
मम गृहं प्रति पुत्रनप्तृकं
गजरथैर्ध्वजैश्चामरैर्धनैः ।
मणिवरासनं सत्कृतिं विना
तव पदाब्जयोः शोभयन्ति किम् ॥ ९ ॥
तव जगद्वपुः सुन्दरस्मितं
मुखमनिन्दितं सुन्दराननम् ।
यदि न मे प्रियं वल्गुचेष्टितं
परिकरोत्यहो मृत्युरस्त्विह ॥ १० ॥
हयचर भयहर करहरशरण
खरतरवरशर दशबलदमन ।
जय हतपरभव भरवरनाशन
शशधर शतसमरसभरमदन ॥ ११ ॥
इति श्रीकल्किपुराणे श्रीसुशान्तकृतं कल्किस्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.