Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ पृथिवीविदारणम् ॥
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन ।
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १ ॥
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् ।
पूर्वको मे कथं ब्रह्मन्यज्ञं वै समुपाहरत् ॥ २ ॥
तस्य तद्वचनं श्रुत्वा कौतूहलसमन्वितः ।
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥ ३ ॥
श्रूयतां विस्तरो राम सगरस्य महात्मनः ।
शङ्करश्वशुरो नाम हिमवानचलोत्तमः ॥ ४ ॥
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ।
तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम ॥ ५ ॥
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ।
तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥ ६ ॥
अंशुमानकरोत्तात सगरस्य मते स्थितः ।
तस्य पर्वणि सम्युक्तं यजमानस्य वासवः ॥ ७ ॥
राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत् ।
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥ ८ ॥
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ।
अयं पर्वणि वेगेन यज्ञीयाश्वोऽपनीयते ॥ ९ ॥
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ।
[* अधिकपाठः –
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः ।
तत्तथा क्रियतां राजन् यथाच्छिद्रः क्रतुर्भवेत् ।
*]
उपाध्यायवचः श्रुत्वा तस्मिन्सदसि पार्थिवः ॥ १० ॥
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ।
गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥ ११ ॥
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ।
तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥ १२ ॥
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ।
एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥ १३ ॥
यावत्तुरगसन्दर्शस्तावत्खनत मेदिनीम् ।
तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १४ ॥
दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।
इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ॥ १५ ॥
इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः । [ते सर्वे]
जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥ १६ ॥
[* गत्व तु पृथिवीं सर्वमदृष्टा तं महबलाः । *]
योजनायामविस्तारमेकैको धरणीतलम् ।
बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्नखैः ॥ १७ ॥
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनन्दन ॥ १८ ॥
नागानां वध्यमानानामसुराणां च राघव ।
राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ॥ १९ ॥
योजनानां सहस्राणि षष्टिं तु रघुनन्दन ।
बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् ॥ २० ॥
एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः ।
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥ २१ ॥
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः ।
सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २२ ॥
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
ऊचुः परमसन्त्रस्ताः पितामहमिदं वचः ॥ २३ ॥
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः ।
बहवश्च महात्मानो हन्यन्ते जलवासिनः ॥ २४ ॥ [वध्यन्ते]
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते ।
इति ते सर्वभूतानि हिंसन्ति सगरात्मजः ॥ २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
बालकाण्ड चत्वारिंशः सर्गः (४०) >>
सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।
గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.