Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ जटायुरभियोगः ॥
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे ।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ १ ॥
ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः ।
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥ २ ॥
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः ।
जटायुर्नाम नाम्नाऽहं गृध्रराजो महाबलः ॥ ३ ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
लोकानां च हिते युक्तो रामो दशरथात्मजः ॥ ४ ॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥ ५ ॥
कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।
रक्षणीया विशेषेण राजदारा महाबलः ॥ ६ ॥
निवर्तय मतिं नीचां परदाराभिमर्शनात् ।
न तत् समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ॥ ७ ॥
यथाऽऽत्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ।
धर्ममर्थं च कामं च शिष्टाः शास्त्रेष्वनागतम् ॥ ८ ॥
व्यवस्यन्ति न राजानो धर्मं पौलस्त्यनन्दन ।
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ॥ ९ ॥
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ।
पापस्वभावश्चपलः कथं त्वं रक्षसां वर ॥ १० ॥
ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः ।
कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम् ॥ ११ ॥
न हि दुष्टात्मनामार्यमावसत्यालये चिरम् ।
विषये वा पुरे वा ते यदा रामो महाबलः ॥ १२ ॥
नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ।
यदि शूर्पणखाहेतोर्जस्थानगतः खरः ॥ १३ ॥
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥ १४ ॥
यस्य त्वं लोकनाथस्य भार्यां हृत्वा गमिष्यसि ।
क्षिप्रं विसृज वैदहीं मा त्वा घोरेण चक्षुषा ॥ १५ ॥
दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा ।
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुद्ध्यसे ॥ १६ ॥
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ।
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ॥ १७ ॥
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ।
यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ॥ १८ ॥
शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ।
षष्टिर्वर्षसहस्राणि मम जातस्य रावण ॥ १९ ॥
पितृपैतामहं राज्यं यथावदनुतिष्ठतः ।
वृद्धोऽहं त्वं युवा धन्वी सशरः कवची रथी ॥ २० ॥
तथाऽप्यादाय वैदेहीं कुशली न गमिष्यसि ।
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ॥ २१ ॥
हेतुभिर्न्यायसम्युक्तैर्ध्रुवां वेदश्रुतीमिव ।
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ॥ २२ ॥
शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा ।
असकृत्सम्युगे येन निहता दैत्यदानवाः ॥ २३ ॥
न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति ।
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ ॥ २४ ॥
क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ।
न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् ॥ २५ ॥
सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम् ।
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः ॥ २६ ॥
जीवितेनापि रामस्य तथा दशरथस्य च ।
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ॥ २७ ॥
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ।
वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.