Site icon Stotra Nidhi

Surya Graha Vedic Mantra – सूर्य ग्रहस्य वैदिक मन्त्र जपम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम सूर्य ग्रहपीडा परिहारार्थं सूर्य ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं सूर्य ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– १। सूर्य मन्त्रः –

आ कृष्णेनेत्यस्य मन्त्रस्य हिरण्यस्तूप ऋषिः विराट् त्रिष्टुप् छन्दः सूर्यो देवता रजसेति बीजं वर्तमान इति शक्तिः सूर्य प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं हिरण्यस्तूप ऋषये नमः शिरसि ।
ओं विराट् त्रिष्टुप् छन्दसे नमः मुखे ।
ओं सूर्य देवतायै नमः हृदये ।
ओं रजसेति बीजाय नमः गुह्ये ।
ओं वर्तमान शक्तये नमः पादयोः ।
ओं सूर्य प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं आकृष्णेनेति अङ्गुष्ठाभ्यां नमः ।
ओं रजसेति तर्जनीभ्यां नमः ।
ओं वर्तमान इति मध्यमाभ्यां नमः ।
ओं निवेशयन्नमृतं मर्त्यं चेति अनामिकाभ्यां नमः ।
ओं हिरण्ययेन सविता रथेनेति कनिष्ठिकाभ्यां नमः ।
ओं आदेवो याति भुवना विपश्यन्निति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं आकृष्णेनेति हृदयाय नमः ।
ओं रजसेति शिरसे स्वाहा ।
ओं वर्तमान इति शिखायै वषट् ।
ओं निवेशयन्नमृतं मर्त्यं चेति कवचाय हुम् ।
ओं हिरण्ययेन सविता रथेनेति नेत्रत्रयाय वौषट् ।
ओं आदेवो याति भुवना विपश्यन्निति अस्त्राय फट् ।

ध्यानम् –
पद्मासनः पद्मकरो द्विबाहुः
पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी
मयि प्रसादं विदधातु देवः ॥

लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
हं आकाशात्मने पुष्पं परिकल्पयामि ।
यं वाय्वात्मने धूपं परिकल्पयामि ।
रं अग्न्यात्मने दीपं परिकल्पयामि ।
वं अमृतात्मने नैवेद्यं परिकल्पयामि ।
सं सर्वात्मने सर्वोपचारान् परिकल्पयामि ।

(य।वे।३३-४३)
ओं आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥

ओं सूर्याय नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत सूर्य ग्रहस्य मन्त्र जपेन सूर्य सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ॥


స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments