Site icon Stotra Nidhi

Sundarakanda Sarga (Chapter) 60 – सुन्दरकाण्ड षष्टितमः सर्गः (६०)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ अङ्गदजाम्बवत्संवादः ॥

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ॥ १ ॥

अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।
समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥ २ ॥

दृष्टा देवी न चानीता इति तत्र निवेदनम् ।
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ ३ ॥

न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ४ ॥

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ५ ॥

तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः ।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ६ ॥

न तावदेषा मतिरक्षमा नो
यथा भवान्पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा
तथा भवान्पश्यतु कार्यसिद्धिम् ॥ ७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्टितमः सर्गः ॥ ६० ॥

सुन्दरकाण्ड एकषष्टितमः सर्गः (६१)>>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments