Site icon Stotra Nidhi

Sri Vishnu Sahasranama Stotram (Garuda Purane) – श्री विष्णु सहस्रनाम स्तोत्रम् (गरुडपुराणे)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

रुद्र उवाच ।
संसारसागराद्घोरान्मुच्यते किं जपन् प्रभो ।
नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १ ॥

हरिरुवाच ।
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् ।
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २ ॥

यत्पवित्रं परं जप्यं कथयामि वृषध्वज ।
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३ ॥

ओम् ॥ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।
बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ ४ ॥

बलिबन्धनकृद्वेधा वरेण्यो वेदवित् कविः ।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५ ॥

वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दनः ।
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६ ॥

वीरहा च बृहद्वीरो वन्दितः परमेश्वरः ।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७ ॥

पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।
परमः परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८ ॥

पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।
पद्माक्षः पद्मगर्भश्च पर्जन्यः पद्मसंस्थितः ॥ ९ ॥

अपारः परमार्थश्च पराणां च परः प्रभुः ।
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १० ॥

शुद्धः प्रकाशरूपश्च पवित्रः परिरक्षकः ।
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ ११ ॥

प्रधानं पृथिवीपद्मं पद्मनाभः प्रियप्रदः ।
सर्वेशः सर्वगः सर्वः सर्ववित् सर्वदः सुरः ॥ १२ ॥

सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् ।
सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ १३ ॥

सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः ।
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः ॥ १४ ॥

सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ।
सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ १५ ॥

सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः ।
दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः ॥ १६ ॥

सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७ ॥

शरणं जगतश्चैव श्रेयः क्षेमस्तथैव च ।
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८ ॥

सत्यस्थः सत्यसङ्कल्पः सत्यवित् सत्यदस्तथा ।
धर्मो धर्मी च कर्मी च सर्वकर्मविवर्जितः ॥ १९ ॥

कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च ।
श्रीपतिर्नृपतिः श्रीमान् सर्वस्य पतिरूर्जितः ॥ २० ॥

सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः ।
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१ ॥

पशूनां च पतिः प्रायो वसूनां पतिरेव च ।
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२ ॥

वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३ ॥

कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा ॥ २४ ॥

नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५ ॥

गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६ ॥

सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा ।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७ ॥

मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।
पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ २८ ॥

ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव द्विजानां पतिरुत्तमः ॥ २९ ॥

सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३० ॥

वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१ ॥

महात्मा मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२ ॥

मालाधरो महादेवो महादेवेन पूजितः ।
महाशान्तो महाभागो मधुसूदन एव च ॥ ३३ ॥

महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः ।
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४ ॥

मुनिस्तुतो मुनिर्मैत्रो महानासो महाहनुः ।
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५ ॥

महावक्त्रो महात्मा च महाकायो महोदरः ।
महापादो महाग्रीवो महामानी महामनाः ॥ ३६ ॥

महागतिर्महाकीर्तिर्महारूपो महासुरः ।
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७ ॥

मखेज्यो मखरूपी च माननीयो मखेश्वरः ।
महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८ ॥

मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।
मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा ॥ ३९ ॥

बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४० ॥

लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा ।
नानालङ्कारसम्युक्तो नानाचन्दनचर्चितः ॥ ४१ ॥

नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः ।
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२ ॥

रत्नदो रत्नहर्ता च रूपी रूपविवर्जितः ।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३ ॥

नीलमेघनिभः शुद्धः कालमेघनिभस्तथा ।
धूमवर्णः पीतवर्णो नानारूपो ह्यवर्णकः ॥ ४४ ॥

विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।
सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ ४५ ॥

सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च ।
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६ ॥

सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।
सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च ॥ ४७ ॥

सुपर्णी च महापर्णी सुपर्णस्य च कारणम् ।
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८ ॥

कारणं महतश्चैव प्रधानस्य च कारणम् ।
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९ ॥

कारणं चेतसश्चैव अहङ्कारस्य कारणम् ।
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५० ॥

आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१ ॥

देहस्य कारणं चैव चक्षुषश्चैव कारणम् ।
श्रोत्रस्य कारणं तद्वत्कारणं च त्वचस्तथा ॥ ५२ ॥

जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ।
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३ ॥

वाचश्च कारणं तद्वत्पायोश्चैव तु कारणम् ।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४ ॥

यमस्य कारणं चैव ईशानस्य च कारणम् ।
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ ५५ ॥

नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् ।
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ ५६ ॥

मनूनां कारणं चैव पक्षिणां कारणं परम् ।
मुनीनां कारणं श्रेष्ठ योगिनां कारणं परम् ॥ ५७ ॥

सिद्धानां कारणं चैव यक्षाणां कारणं परम् ।
कारणं किन्नराणां च गन्धर्वाणां च कारणम् ॥ ५८ ॥

नदानां कारणं चैव नदीनां कारणं परम् ।
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९ ॥

कारणं वीरुधां चैव लोकानां कारणं तथा ।
पाताल कारणं चैव देवानां कारणं तथा ॥ ६० ॥

सर्पाणां कारणं चैव श्रेयसां कारणं तथा ।
पशूनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१ ॥

देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च ।
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२ ॥

जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा ।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३ ॥

पृथिव्याः परमात्मा च रसस्यात्मा तथैव च ।
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४ ॥

शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा ।
श्रोत्रात्मा च त्वगात्मा च जिह्वात्मा परमस्तथा ॥ ६५ ॥

घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा ।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६ ॥

इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा ।
दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ ६७ ॥

ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ ६८ ॥

ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।
यतिरूपी च योगी च योगिध्येयो हरिः शितिः ॥ ६९ ॥

संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा ।
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७० ॥

मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः ॥ ७१ ॥

अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२ ॥

शर्मदश्चैव गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३ ॥

नारायणो महाभागः प्राणस्य पतिरेव च ।
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४ ॥

उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५ ॥

रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः ।
चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ ७६ ॥

प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।
सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७ ॥

अनन्तोऽनन्तरूपश्च सुनखः सुरमन्दरः ।
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ ७८ ॥

हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः ।
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९ ॥

केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८० ॥

अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।
अक्रूरः क्रूररूपश्च अक्रूरप्रियवन्दितः ॥ ८१ ॥

भगहा भगवान् भानुस्तथा भागवतः स्वयम् ।
उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ ८२ ॥

चक्रधृक् चञ्चलश्चैव चलाचलविवर्जितः ।
अहङ्कारोपमश्चित्तं गगनं पृथिवी जलम् ॥ ८३ ॥

वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च ।
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४ ॥

शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः ।
भक्तप्रियस्तथा भर्ता भक्तिमान् भक्तिवर्धनः ॥ ८५ ॥

भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।
कीर्तिर्दीप्तिः क्षमाकान्तिर्भक्तश्चैव दया परा ॥ ८६ ॥

दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।
शुचिमान् सुखदो मोक्षः कामश्चार्थः सहस्रपात् ॥ ८७ ॥

सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च ॥ ८८ ॥

शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९ ॥

मत्स्यः परशुरामश्च प्रह्लादो बलिरेव च ।
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ ९० ॥

खरदूषणहन्ता च रावणस्य प्रमर्दनः ।
सीतापतिश्च वर्धिष्णुर्भरतश्च तथैव च ॥ ९१ ॥

कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२ ॥

दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः ॥ ९३ ॥

यमलार्जुनभेत्ता च तपोहितकरस्तथा ।
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४ ॥

सारः सारप्रियः सौरः कालहन्तृनिकृन्तनः ।
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५ ॥

प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् ।
उदानश्च समानश्च भेषजं च भिषक् तथा ॥ ९६ ॥

कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः ॥ ९७ ॥

हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८ ॥ [महाताप]

प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ।
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९ ॥

अपानेन विहीनश्च व्यानेन च विवर्जितः ।
उदानेन विहीनश्च समानेन विवर्जितः ॥ १०० ॥

आकाशेन विहीनश्च वायुना परिवर्जितः ।
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१ ॥

पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः ॥ १०२ ॥

रागेण विगतश्चैव अघेन परिवर्जितः ।
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३ ॥

रजोविवर्जितश्चैव विकारैः षड्भिरेव च ।
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४ ॥

लोभेन विगतश्चैव दम्भेन च विवर्जितः ।
सूक्ष्मश्चैव सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५ ॥

विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६ ॥

भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा ।
इन्द्रियाणां क्षोभकश्च विषयक्षोभकस्तथा ॥ १०७ ॥

ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८ ॥

त्वचा न गम्यः कूर्मश्च जिह्वाऽग्राह्यस्तथैव च ।
घ्राणेन्द्रियागम्य एव वाचाऽग्राह्यस्तथैव च ॥ १०९ ॥

अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च ।
अग्राह्यो मनसश्चैव बुद्ध्याऽग्राह्यो हरिस्तथा ॥ ११० ॥

अहं बुद्ध्या तथाऽग्राह्यश्चेतसाऽग्राह्य एव च ।
शङ्खपाणिश्चाव्ययश्च गदापाणिस्तथैव च ॥ १११ ॥

शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२ ॥

ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः ।
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३ ॥

गोविन्दो गोपतिर्गोपः सर्वगोपीसुखप्रदः ।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४ ॥

उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।
आरणेयो बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५ ॥

दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं त्रिविक्रमः ॥ ११६ ॥

विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् ।
सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७ ॥

सामवेदो ह्यथर्वश्च सुकृतः सुतरूपणः ।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८ ॥

ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः ।
यजुर्वेत्ता यजुर्वेदो यजुर्वेदविदेकपात् ॥ ११९ ॥

बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ।
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली ॥ १२० ॥

सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१ ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णस्तथैव च ।
शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२ ॥

मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।
पूज्यो वाक्करणं चैव वाच्यं चैव तु वाचकः ॥ १२३ ॥

वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् ।
वाक्यगम्यस्तीर्थवासी तीर्थस्तीर्थी च तीर्थवित् ॥ १२४ ॥

तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् ।
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः ॥ १२५ ॥

प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।
शालग्रामनिवासी च शालग्रामस्तथैव च ॥ १२६ ॥

जलशायी योगशायी शेषशायी कुशेशयः ।
महीभर्ता च कार्यं च कारणं पृथिवीधरः ॥ १२७ ॥

प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ।
सम्राट् पूषा तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १२८ ॥

धनी धनप्रदो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो भीम एव च ॥ १२९ ॥

पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३० ॥

अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च ।
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१ ॥

कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२ ॥

मुद्रो मुद्राकरश्चैव सर्वमुद्राविवर्जितः ।
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३ ॥

श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा ।
त्वक्-स्थितश्च स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा ॥ १३४ ॥

रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः ॥ १३५ ॥

घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ।
वाक्-स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६ ॥

प्राणिस्थः शिल्पकृच्छिल्पो हस्तयोश्च नियामकः ।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७ ॥

नियन्ता पादयोश्चैव पाद्यभाक् च विसर्गकृत् ।
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा ॥ १३८ ॥

उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९ ॥

अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः ।
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४० ॥

अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ।
धूमकृद्धूमरूपश्च देवकीपुत्र उत्तमः ॥ १४१ ॥

देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च ।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२ ॥

दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च ।
अट्‍टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३ ॥

अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्यावल्लभस्तथा ॥ १४४ ॥

गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः ।
वृषाकपिर्यमो गुह्यो मुकुलश्च बुधस्तथा ॥ १४५ ॥

राहुः केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः ।
ग्राहस्य विनिहन्ता च ग्रामणी रक्षकस्तथा ॥ १४६ ॥

किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो दैत्यसूदन एव च ॥ १४७ ॥

अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८ ॥

जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा ।
स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९ ॥

जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा ॥ १५० ॥

भुवनाधिपतिश्चैव भुवनानां नियामकः ।
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१ ॥

परमानन्दरूपी च धर्माणां च प्रवर्तकः ।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा ॥ १५२ ॥

प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३ ॥

अग्राहश्चैव गौरश्च सर्वः शुचिरभिष्टुतः ।
वषट्कारो वषड्वौषट् स्वधा स्वाहा रतिस्तथा ॥ १५४ ॥

पक्ता नन्दयिता भोक्ता बोद्धा भावयिता तथा ।
ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ १५५ ॥

नदी नन्दी च नन्दीशो भारतस्तरुनाशनः ।
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १५६ ॥

ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा ।
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च ॥ १५७ ॥

भरतो जनको जन्यः सर्वाकारविवर्जितः ।
निराकारो निर्निमित्तो निरातङ्को निराश्रयः ॥ १५८ ॥

इति नामसहस्रं ते वृषभध्वज कीर्तितम् ।
देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ १५९ ॥

पठन् द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६० ॥

इति श्रीगारुडे महापुराणे आचारकाण्डे श्री विष्णु सहस्रनाम स्तोत्रं नाम पञ्चदशोऽध्यायः ॥

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments