Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ २
कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ ३
वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ ४
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुः भगवान् बादरायणः ॥ ५
शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ ६
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ ७
व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः ।
चिरञ्जीवी दीर्घमायुर्ददातु जटिलो मम ॥ ८
प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः ।
कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥ ९
जटाधरस्तपोनिष्ठः शुद्धयोगो जितेन्द्रियः ।
कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥ १०
भारतस्य विधाता च द्वितीय इव यो हरिः ।
हरिभक्तिपरो यश्च तस्मै श्रीगुरवे नमः ॥ ११
जयति पराशरसूनुः सत्यवती हृदयनन्दनो व्यासः ।
यस्यास्य कमलगलितं भारतममृतं जगत्पिबति ॥ १२
वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुसाधनसूत्रसृजे सत्यवत्यभिव्यक्ति मते ॥ १३
वेदान्तवाक्यकुसुमानि समानि चारु
जग्रन्थ सूत्रनिचयेन मनोहरेण ।
मोक्षार्थिलोकहितकामनया मुनिर्यः
तं बादरायणमहं प्रणमामि भक्त्या ॥ १४
इति श्री वेदव्यास स्तुतिः ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.