Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मा यस्य ऋषिः स्वयं निगदितश्छन्दो मतं त्रैष्टुभं
स्वर्णाकर्षणभैरवो हरिहरब्रह्मात्मको देवता ।
ह्रीं बीजं भृगुशक्तिरित्यभिहितं तस्यैव सूत्रात्मनः
स्तोत्रं ध्यान पुरःसरं मनुमयं ब्रूमो वयं प्रत्यहम् ॥ १ ॥
मन्दारद्रुममूलपूजितमहामाणिक्यसिंहासने
संविष्टो दरभिन्न चम्पकरुचा देव्या समालिङ्गितः ।
भक्तेभ्यो वररत्न पात्र भरितं स्वर्णं ददानोऽनिशं
स्वर्णाकर्षणभैरवो विजयते स्वर्गापवर्गप्रदः ॥ २ ॥
ओं ऐं क्लां क्लीं क्लूमिति व्याहरन्
यो भक्तः स्वर्णाकर्षणम् ।
कारुण्याब्धिः कल्पमूलाधिवासः
स्वर्णाकर्षो भैरवो मेऽस्तु भूत्यै ॥ ३ ॥
ह्रां ह्रीं हूं सः सन्ततं जापकानां
वर्षन्तं तं स्वर्णवृष्टिं समग्राम् ।
अन्तः स्वान्तं सूर्यकोटिप्रकाशं
स्वर्णाकर्षं भैरवं भावयामि ॥ ४ ॥
मरकतमणिपात्रे सम्भृतं स्वर्णपूर्णं
कृपणतरजनेभ्यस्तारतः सम्प्रदातुः ।
कुरु हृदय सपर्यां सेवमानाय नित्यं
सुरवरमनुजेन्द्रस्यापदुद्धारणाय ॥ ५ ॥
नमोऽजामलबद्धाय ब्रह्मसूत्राधिवाससे ।
स्वर्णाकर्षणशीलाय साधकानां कृतात्मने ॥ ६ ॥
लोकेश्वराद्यर्चितपादुकाय
दारिद्र्यनिर्मूलनकारणाय ।
स्वर्णादि दानकरणोद्यत भैरवाय
कारुण्यवारान्निधये नमस्ते ॥ ७ ॥
दीनानाथ विपन्नरक्षणपरै राज्यप्रतीक्षापरैः
सिद्धैः साध्यगणैः सुरासुरगणैर्भुक्तिप्रयुक्तात्मभिः ।
मूले कल्पतरोर्महामणिमये मार्तण्डतेजोजुषे
स्वर्णाकर्षणभैरवाय सततं कुर्मो नमस्यां वयम् ॥ ८ ॥
स्वर्णाकर्षिस्वर्णदेव्याश्रिताय
स्वर्णारूढोदारसिंहासनाय ।
कुर्मो नित्यं स्वर्णदात्रे नमस्यां
दारिद्र्यद्वेषि श्रीमते भैरवाय ॥ ९ ॥
स्वर्णप्रदानाध्वरदीक्षिताय
स्वतेजसाक्रान्तजगत्त्रयाय ।
औदार्यसम्पत्सदनाय नित्यं
ओं श्रीमहाभैरव ते नमोऽस्तु ॥ १० ॥
चिन्तामणिस्थितमहानिधिकामधेनु-
-मन्दारमूलमणिमण्डपमध्यगाय ।
स्वर्णप्रदाननिरताय सदा सपर्यां
कुर्मो वयं त्रिकरणैः परभैरवाय ॥ ११ ॥
मूले कल्पतरोः प्रभापरिमले भद्रासने संस्थितो
हस्ताम्भोरुहरत्नपात्रभरितैः कार्तस्वरैर्भास्वरैः ।
निर्मूलीकृतदुर्गतो विरचयन् विद्युद्दिनेशद्युतिः
स्वर्णाकर्षणभैरवो भवतु नो दारिद्र्यविद्वेषणः ॥ १२ ॥
दुग्धाद्याराध्य स्वर्णाकृति कनकमये द्वीपवर्ये सुधाब्धौ
कापित्थे तत्र रम्ये मणिमयविलसद्भित्तिपाश्चात्यभागे ।
यद्वत्तं सर्ववाञ्छाधिकवसुनिचयं मन्त्रिणां संसरन्तं
ध्यायेच्छ्रीभैरवं तं सकलसुवसुदं दुःखदारिद्र्य शत्रुम् ॥ १३ ॥
सुवर्णमण्डपे ध्यायेत् सुवर्णरुचिभिर्युतम् ।
महात्मानं सुखासीनं प्रसन्नवरदायकम् ॥ १४ ॥
सर्वरत्नविभूषाढ्यं सुरासुरनमस्कृतम् ।
मणिहारकसम्पूर्तिं ददतं स्वकरैः सदा ॥ १५ ॥
सुवर्णवृष्टिरूपैश्च धनसारैर्निरन्तरम् ।
दारिद्र्यनामसंहारं कुण्डलोल्लाससम्युतम् ॥ १६ ॥
एवं ध्यात्वा महात्मानं महादारिद्र्यनाशनम् ।
स्तौमि मन्दारमूलस्थं ब्रह्मसूत्राधिवासनम् ॥ १७ ॥
स्वर्णसिद्धिं करैरेव ददानं स्वर्णभैरवम् ।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ १८ ॥
स्वर्णादिमध्यमणिमण्डप कल्पवृक्षे
पीतारुणाम्बुजनिविष्टसुवर्णवर्णम् ।
माणिक्यपात्रमभयं दधतं च दोर्भ्यां
स्वर्णादिकर्षणविनोदनिधिं नमामि ॥ १९ ॥
सुवर्णकर्षकं नित्यं ऋणहर्तारमीश्वरम् ।
भजतो न ऋणं तस्य धनं शीघ्रं प्रजायते ॥ २० ॥
पीतवर्णं चतुर्बाहुं त्रिनेत्रं पीतवाससम् ।
अक्षद्वयं स्वर्णमयं तडित्पूरितपात्रकम् ॥ २१ ॥
अतितीक्ष्णमहाशूलं तोमरं चामरद्वयम् ।
सततं चिन्तयेद्यस्तु भैरवं स्वर्णसिद्धिदम् ॥ २२ ॥
स्वर्णाकर्षणभैरवमन्त्राढ्यं स्तोत्रमुत्तमम् ।
पठतां निधिसिद्धिश्च स्वर्णसिद्धिश्च जायते ॥ २३ ॥
अनेन स्तवराजेन नित्यं ब्रह्महरीश्वराः ।
स्वर्णाकर्षणनामानि स्तुवन्ति जगदीश्वराः ॥ २४ ॥
फलश्रुतिः –
यः पठेत् परमं स्तोत्रमिदं नित्यं नरोत्तमः ।
स मर्त्यो मन्दभाग्योऽपि भैरवस्य प्रसादतः ॥ २५ ॥
इच्छतोऽप्यधिकां लक्ष्मीं लभते नात्र संशयः ।
रससिद्धिर्भवेच्छीघ्रं निधीनामधिपो भवेत् ॥ २६ ॥
सर्वान् कामानवाप्नोति दैवतैरपि दुर्लभम् ।
एतज्जपैर्महालक्ष्मीश्चञ्चलाप्यचला भवेत् ॥ २७ ॥
रत्नान्यश्वान् गजान् भूतीर्लभते शीघ्रमेव हि ।
स्वर्णराशिमवाप्नोति चाक्षयां नात्र संशयः ॥ २८ ॥
धेनुं चिन्तामणिं कल्पद्रुमं शीघ्रमवाप्नुयात् ।
नित्यमष्टोत्तरशतं यो जपेत् स्तोत्रमुत्तमम् ॥ २९ ॥
मण्डलार्धाच्च प्रागेव स्वर्णराशिमनुत्तमम् ।
सततं ध्यायते तस्मै दर्शयत्येव निश्चयः ॥ ३० ॥
नित्यं च त्रिपुराभक्तैः स्वर्णाकर्षणभैरवः ।
यत्नेन सर्वदोपास्यः सर्वकामप्रदायकः ॥ ३१ ॥
इति श्रीरुद्रयामले श्रीत्रिपुरासिद्धान्ते दक्षिणामूर्ति प्रोक्तं श्री स्वर्णाकर्षण भैरव स्तोत्रम् ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.