Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री प्रत्यङ्गिरा उग्रकृत्यादेवी महामन्त्रस्य प्रत्यङ्गिरा ऋषिः अनुष्टुप्छन्दः श्री शक्तिः प्रत्यङ्गिरा उग्रकृत्यादेवी देवता ह्रीं बीजं क्रों शक्तिः श्रीं कीलकं मम सर्वशत्रुसंहरणार्थे परमन्त्र परयन्त्र परतन्त्र परकर्म परविद्याद्याभिचारिक विधान विनाशार्थे मम सहकुटुम्बस्य सपुत्रकस्य सबान्धवस्य सपरिवारस्य क्षेम स्थैर्यायुरारोग्यैश्वराभिवृद्ध्यर्थे श्री प्रत्यङ्गिरा महादेवी प्रसाद सिद्ध्यर्थे प्रत्यङ्गिरा मन्त्र जपे विनियोगः ।
करन्यासः –
ओं अं ह्रां ह्रीं सहस्रवदनायै आं अङ्गुष्ठाभ्यां नमः ।
ओं इं ह्रीं ह्रीं अष्टादशभुजायै ईं तर्जनीभ्यां नमः ।
ओं उं ह्रूं ह्रीं त्रिनेत्रायै ऊं मध्यमाभ्यां नमः ।
ओं एं ह्रैं ह्रीं रक्तमाल्याम्बरधरायै ऐं अनामिकाभ्यां नमः ।
ओं ओं ह्रौं ह्रीं सर्वाभरणभूषितायै औं कनिष्ठिकाभ्यां नमः ।
ओं अं ह्रः ह्रीं महाभयनिवारणायै अः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं अं ह्रां ह्रीं सहस्रवदनायै आं हृदयाय नमः ।
ओं इं ह्रीं ह्रीं अष्टादशभुजायै ईं शिरसे स्वाहा ।
ओं उं ह्रूं ह्रीं त्रिनेत्रायै ऊं शिखायै वषट् ।
ओं एं ह्रैं ह्रीं रक्तमाल्याम्बरधरायै ऐं कवचाय हुम् ।
ओं ओं ह्रौं ह्रीं सर्वाभरणभूषितायै औं नेत्रत्रयाय वौषट् ।
ओं अं ह्रः ह्रीं महाभयनिवारणायै अः अस्त्राय फट् ।
ध्यानम् –
सहस्रवदनां देवीं शतबाहूं त्रिलोचनां
रक्तमाल्याम्बरधरां सर्वाभरणभूषिताम् ।
शक्तिं प्रत्यङ्गिरां ध्यायेत् सर्वकामार्थसिद्धये
नमः प्रत्यङ्गिरां देवी प्रतिकूलनिवारिणीम् ।
मन्त्रसिद्धिं च तां देवीं चिन्तयामि हृदम्बुजे ।
प्रत्यङ्गिरां शापहरं भूतप्रेतविनाशिनीम् ।
चिन्तयेदुग्रकृत्यां तां परमैश्वर्यदायिनीम् ॥
मनुः –
ओं ह्रीं ईं ग्लौं श्रीं सौं ऐं हुं नमः कृष्णवाससे शतसहस्रसिंहवदने अष्टादशभुजे महाबले शतपराक्रमपूजिते अजिते अपराजिते देवि प्रत्यङ्गिरे परसैन्य परकर्म विध्वंसिनि परमन्त्रच्छेदिनी परयन्त्रपरतन्त्रोच्चाटनि परविद्याग्रासकरे सर्वभूतदमनि क्षं ग्लौं सौं ईं ह्रीं क्रीं क्रां एह्येहि प्रत्यङ्गिरे चिदचिद्रूपे सर्वोपद्रवेभ्यः सर्वग्रहदोषेभ्यः सर्वरोगेभ्यः प्रत्यङ्गिरे मां रक्ष रक्ष ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्षां क्षीं क्षूं क्षैं क्षौं क्षः ग्लां ग्लीं ग्लूं ग्लैं ग्लौं ग्लः प्रत्यङ्गिरे परब्रह्ममहिषि परमकारुणिके एहि मम शरीरे आवेशय आवेशय मम हृदये स्फुर स्फुर ममांसे प्रस्फुर प्रस्फुर सर्वदुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय जिह्वां कीलय कीलय बुद्धिं विनाशय विनाशय प्रत्यङ्गिरे महाकुण्डलिनि चन्द्रकलावतंसिनि भेतालवाहने प्रत्यङ्गिरे कपालमालाधारिणि त्रिशूल वज्राङ्कुश बाण बाणासन पाणिपात्रपूरितं मम शत्रु शोणितं पिब पिब मम शत्रु मांसं खादय खादय मम शत्रून् ताडय ताडय मम वैरिजनान् दह दह मम विद्वेषकारिणः शीघ्रमेव भक्षय भक्षय श्रीप्रत्यङ्गिरे भक्तकारुणिके शीघ्रमेव दयां कुरु कुरु सद्यो ज्वरजाड्यमुक्तिं कुरु कुरु भेतालब्रह्मराक्षसादीन् जहि जहि मम शत्रून् ताडय ताडय प्रारब्धसञ्चितक्रियमानान् दह दह दूषकान् सद्यो दीर्घरोगयुक्तान् कुरु कुरु प्रत्यङ्गिरे प्राणशक्तिमये मम वैरिजनप्राणान् हन हन मर्दय मर्दय नाशय नाशय ओं श्रीं ह्रीं क्रीं सौं ग्लौं प्रत्यङ्गिरे महामाये देवि देवि मम वाञ्छितं कुरु कुरु मां रक्ष रक्ष प्रत्यङ्गिरे स्वाहा ॥
अथ स्तवराज स्तोत्रम् –
मन्त्रयन्त्रसुखासीनं चन्द्रचूडं महेश्वरम् ।
सहसागत्य चरणे पार्वती परिपृच्छति ॥
ईश्वर उवाच ।
धारणीं परमां विद्यां प्रत्यङ्गिरां महोत्तमाम् ।
यो जानाति स्वहस्तेन सर्वं साध्यं हि जिह्वया ॥
अमृतं पिबते तस्य मृत्युर्नास्ति कदाचन ।
त्रिपुरां च समायातां सेमां विद्यां च बिभ्रतीम् ॥
निर्जिताश्चामराः सर्वे देवी विद्याभिमानिनी ।
गोलकं सम्प्रवक्ष्यामि भैषज्यमिव धारणात् ॥
त्रिवृतं धारयेन्मन्त्रं प्रत्यङ्गिरः सुभाषितम् ।
हरिचन्दनमिश्रेण रोचनैः कुङ्कुमेन च ॥
लिखित्वा भूर्जपत्रेण धारणीयं सदा नृपैः ।
पुष्पधूपविचित्रैश्च भक्ष्यभोज्यैर्निवेदनम् ॥
पूजयित्वा यथान्यायं सप्तकुम्भेन वैष्णवीम् ।
य इमां धारयेद्विद्यां लिखित्वा रिपुनाशिनीम् ।
विलयं यान्ति रिपवः प्रत्यङ्गिरा सुधारणात् ॥
अथ मन्त्रपदानि भवन्ति –
ओं नमः सूर्यसहस्रेक्षणाय, ओं अनादिरूपाय, ओं पुरुहूताय, ओं महेश्वराय, ओं जगच्छान्तिकारिणे, ओं शान्ताय, ओं महाघोराय, ओं अतिघोराय, ओं प्रभव प्रभव, ओं दर्शय दर्शय, ओं मर्दय मर्दय, ओं हिलि हिलि हिलि, ओं किलि किलि किलि, ओं ज्वल ज्वल ज्वल, ओं ग्रस ग्रस ग्रस, ओं पिब पिब पिब, ओं नाशय नाशय नाशय, ओं जनय जनय जनय, ओं विदारय विदारय विदारय, देवि देवि मां रक्ष रक्ष रक्ष, ह्रीं देवि देवि पिशाच किन्नर किम्पुरुष उरग विद्याधर रुद्र गरुड गन्धर्व यक्ष राक्षस लोकपालान् स्तम्भय स्तम्भय स्तम्भय, ये च शत्रवश्चाभिचार कर्तारस्तेषां शत्रूणां मन्त्र यन्त्र तन्त्राणि चूर्णय चूर्णय चूर्णय, घातय घातय घातय, विश्वमूर्तिं महामूर्तिं जय जय जय, मम शत्रूणां मुखं स्तम्भय स्तम्भय स्तम्भय, मम शत्रूणां पादं स्तम्भय स्तम्भय स्तम्भय, मम शत्रूणां गुह्यं स्तम्भय स्तम्भय स्तम्भय, मम शत्रूणां जिह्वां स्तम्भय स्तम्भय स्तम्भय, मम शत्रूणां स्थानं कीलय कीलय कीलय, मम शत्रूणां ग्रामं कीलय कीलय कीलय, मम शत्रूणां देशं कीलय कीलय कीलय, ये च पाठकस्य परिवारकास्तेषां शान्तिं कुरु कुरु स्वाहा ॥
ओं नमो भगवति उच्छिष्टचाण्डालि त्रिशूलवज्राङ्कुशधारिणि नररुधिरमांसभक्षिणि कपालखट्वाङ्गधारिणि मम शत्रून् दह दह ग्रस ग्रस पिब पिब खाहि खाहि नाशय नाशय हूं फट् स्वाहा ॥
ओं ब्रह्माणि मम नेत्रे रक्ष रक्ष स्वाहा ।
ओं कौमारि मम वक्षःस्थलं रक्ष रक्ष स्वाहा ।
ओं वाराहि मम हृदयं रक्ष रक्ष स्वाहा ।
ओं इन्द्राणि मम नाभिं रक्ष रक्ष स्वाहा ।
ओं चण्डिके मम गुह्यं रक्ष रक्ष स्वाहा ।
ओं मेघवाहने मम ऊरुं रक्ष रक्ष स्वाहा ।
ओं चामुण्डि मम जङ्घे रक्ष रक्ष स्वाहा ।
ओं वसुन्धरे मम पादौ रक्ष रक्ष स्वाहा ॥
ओं झः झः झः ओं थः थः थः ओं स्फ्रैं स्फ्रैं ओं स्तम्भय स्तम्भय क्षोभय क्षोभय हूं फट् स्वाहा ॥
शक्तिध्यानम् –
स्तम्भिनीं मोहिनीं चैवोच्चाटनीं क्षोभिणीं तथा ।
जृम्भिणीं द्राविणीं रौद्रीं तथा संहारिणीं शुभाम् ॥
शक्तयः क्रम योगेन शत्रुपक्षे नियोजिताः ।
धारिताः साधकेन्द्रेण सर्वशत्रुनिवारिणी ॥
ओं स्तम्भिनि ष्वेग्निं ष्वेग्निं मम शत्रून् स्तम्भय स्तम्भय हूं फट् स्वाहा ।
ओं मोहिनि ष्वेग्निं ष्वेग्निं मम शत्रून् मोहय मोहय हूं फट् स्वाहा ।
ओं उच्चाटनि ष्वेग्निं ष्वेग्निं मम शत्रून् उच्चाटय उच्चाटय हूं फट् स्वाहा ।
ओं क्षोभिणि ष्वेग्निं ष्वेग्निं मम शत्रून् क्षोभय क्षोभय हूं फट् स्वाहा ।
ओं जृम्भिणि ष्वेग्निं ष्वेग्निं मम शत्रून् जृम्भय जृम्भय हूं फट् स्वाहा ।
ओं द्राविणि ष्वेग्निं ष्वेग्निं मम शत्रून् द्रावय द्रावय हूं फट् स्वाहा ।
ओं रौद्रि ष्वेग्निं ष्वेग्निं मम शत्रून् सन्तापय सन्तापय हूं फट् स्वाहा ।
ओं संहारिणि ष्वेग्निं ष्वेग्निं मम शत्रून् संहारय संहारय हूं फट् स्वाहा ।
ओं सर्वसंहारकारिणि महाप्रत्यङ्गिरे सर्वशस्त्रोन्मूलनि स्वाहा ॥
इति श्रीरुद्रयामले श्रीशूलपाणि विरचित सर्वशक्ति श्री प्रत्यङ्गिरा स्तवराजः ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.