Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री केतुस्तोत्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, केतुर्देवता, श्री केतुग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।
गौतम उवाच ।
मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारदः ।
सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १ ॥
सूत उवाच ।
शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥ २ ॥
आद्यः करालवदनो द्वितीयो रक्तलोचनः ।
तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३ ॥
पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
सप्तमो हिमगर्भश्च धूम्रवर्णोऽष्टमस्तथा ॥ ४ ॥
नवमः कृत्तकण्ठश्च दशमो नरपीडकः ।
एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५ ॥
द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६ ॥
नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७ ॥
कुलुत्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥ ८ ॥
नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९ ॥
स्तोत्रमेतत् पठित्वा च ध्यायेत् केतुं वरप्रदम् ।
ब्रह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १० ॥
केतोः करालवक्त्रस्य प्रतिमां वस्त्रसम्युताम् ।
कुम्भादिभिश्च सम्युक्तां चित्राधारे प्रदापयेत् ॥ ११ ॥
दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
वत्सरं प्रयतो भूत्वा पूजयित्वा विधानतः ॥ १२ ॥
मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३ ॥
इति श्री केतु द्वादशनाम स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.