Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीशाक्तानन्दपीयूषस्य नाम श्रीकालभैरवाष्टोत्तरशतनाम स्तोत्र महामन्त्रस्य श्री आनन्दभैरव ऋषिः अनुष्टुप् छन्दः श्री कालभैरवो देवता ह्रीं बीजं ह्सौः शक्तिः क्ष्फ्रौं कीलकं श्रीकालभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासाः –
श्रीआनन्दभैरव ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमो मुखे ।
श्रीकालभैरव देवतायै नमो हृदये ।
ह्रीं बीजाय नमो गुह्ये ।
ह्सौः शक्तये नमः पादयोः ।
क्ष्फ्रौं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ॥
करन्यासाः –
क्ष्फ्रां अङ्गुष्ठाभ्यां नमः ।
क्ष्फ्रीं तर्जनीभ्यां नमः ।
क्ष्फ्रूं मध्यमाभ्यां नमः ।
क्ष्फ्रैं अनामिकाभ्यां नमः ।
क्ष्फ्रौं कनिष्ठिकाभ्यां नमः ।
क्ष्फ्रः करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासाः –
क्ष्फ्रां हृदयाय नमः ।
क्ष्फ्रीं शिरसे स्वाहा ।
क्ष्फ्रूं शिखायै वषट् ।
क्ष्फ्रैं कवचाय हुम् ।
क्ष्फ्रौं नेत्रत्रयाय वौषट् ।
क्ष्फ्रः अस्त्राय फट् ॥
ध्यानम् –
श्वस्थं त्रीक्षणशोभितं श्रितजनोद्धारं कृपासागरं
आम्नायास्यकरोटिखर्पकरं दण्डं धरन्तं सदा ।
श्रीकाशीपुरनायकं सकलमन्त्रर्षीश्वरं मोक्षदं
ध्यायेत्तं हृदि कालभैरवगुरुं कान्तासमेतं परम् ॥
स्तोत्रम् –
कालभैरवदेवः कालकालः कालदण्डधृक् ।
कालात्मा काममन्त्रात्मा काशिकापुरनायकः ॥ १ ॥
करुणावारिधिः कान्तामिलितः कालिकातनुः ।
कालजः कुक्कुरारूढः कपाली कालनेमिहा ॥ २ ॥
कालकण्ठः कटाक्षानुगृहीताखिलसेवकः ।
कपालखर्परोत्कृष्टभिक्षापात्रधरः कविः ॥ ३ ॥
कल्पान्तदहनाकारः कलानिधिकलाधरः ।
कपालमालिकाभूषः कालीकुलवरप्रदः ॥ ४ ॥
कालीकलावतीदीक्षासंस्कारोपासनप्रियः ।
कालिकादक्षपार्श्वस्थः कालीविद्यास्वरूपवान् ॥ ५ ॥
कालीकूर्चसमायुक्तभुवनाकूटभासुरः ।
कालीध्यानजपासक्तहृदगारनिवासकः ॥ ६ ॥
कालिकावरिवस्यादिप्रदानकल्पपादपः ।
काल्युग्रावासवब्राह्मीप्रमुखाचार्यनायकः ॥ ७ ॥
कङ्कालमालिकाधारी कमनीयजटाधरः ।
कोणरेखाष्टपत्रस्थप्रदेशबिन्दुपीठगः ॥ ८ ॥
कदलीकरवीरार्ककञ्जहोमार्चनप्रियः ।
कूर्मपीठादिशक्तीशः कलाकाष्ठादिपालकः ॥ ९ ॥
कटप्रूः कामसञ्चारी कामारिः कामरूपवान् ।
कण्ठादिसर्वचक्रस्थः क्रियादिकोटिदीपकः ॥ १० ॥
कर्णहीनोपवीताभः कनकाचलदेहवान् ।
कन्दराकारदहराकाशभासुरमूर्तिमान् ॥ ११ ॥
कपालमोचनानन्दः कालराजः क्रियाप्रदः ।
करणाधिपतिः कर्मकारकः कर्तृनायकः ॥ १२ ॥
कण्ठाद्यखिलदेशाहिभूषणाढ्यः कलात्मकः ।
कर्मकाण्डाधिपः किल्बिषमोची कामकोष्ठकः ॥ १३ ॥
कलकण्ठारवानन्दी कर्मश्रद्धवरप्रदः ।
कुणपाकीर्णकान्तारसञ्चारी कौमुदीस्मितः ॥ १४ ॥
किङ्किणीमञ्जुनिक्वाणकटीसूत्रविराजितः ।
कल्याणकृत्कलिध्वंसी कर्मसाक्षी कृतज्ञपः ॥ १५ ॥
करालदंष्ट्रः कन्दर्पदर्पघ्नः कामभेदनः ।
कालागुरुविलिप्ताङ्गः कातरार्ताभयप्रदः ॥ १६ ॥
कलन्दिकाप्रदः कालीभक्तलोकवरप्रदः ।
कामिनीकाञ्चनाबद्धमोचकः कमलेक्षणः ॥ १७ ॥
कादम्बरीरसास्वादलोलुपः काङ्क्षितार्थदः ।
कबन्धनावः कामाख्याकाञ्च्यादिक्षेत्रपालकः ॥ १८ ॥
कैवल्यप्रदमन्दारः कोटिसूर्यसमप्रभः ।
क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनः ॥ १९ ॥
काम्यादिकर्मसर्वस्वफलदः कर्मपोषकः ।
कार्यकारणनिर्माता कारागृहविमोचकः ॥ २० ॥
कालपर्यायमूलस्थः कार्यसिद्धिप्रदायकः ।
कालानुरूपकर्माङ्गमोषणभ्रान्तिनाशनः ॥ २१ ॥
कालचक्रप्रभेदी कालिम्मन्ययोगिनीप्रियः ।
काहलादिमहावाद्यतालतांडवलालसः ॥ २२ ॥
कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकः ।
कालरात्रिमहारात्रिशिवारात्र्यादिकारकः ॥ २३ ॥
कोलाहलध्वनिः कोपी कौलमार्गप्रवर्तकः ।
कर्मकौशल्यसन्तोषी केलिभाषणलालसः ॥ २४ ॥
कृत्स्नप्रवृत्तिविश्वाण्डपञ्चकृत्यविधायकः ।
कालनाथपरः कारः कालधर्मप्रवर्तकः ॥ २५ ॥
कुलाचार्यः कुलाचाररतः कुह्वष्टमीप्रियः ।
कर्मबन्धाखिलच्छेदी कोष्ठस्थभैरवाग्रणीः ॥ २६ ॥
कठोरौजस्यभीष्माज्ञापालकिङ्करसेवितः ।
कालरुद्रः कालवेलाहोरांशमूर्तिमान् करः ॥ २७ ॥
इत्युक्तं गुरुनाथस्य नाम्नामष्टोत्तरं शतम् ।
श्रीकालभैरवस्येदं रहस्यमतिपावनम् ॥ २८ ॥
श्रीशाक्तानन्दपीयुषं मोक्षसाधनमुत्तमम् ।
विद्यासर्वस्वसाराढ्यं योगिनीहृदयङ्गमम् ॥ २९ ॥
पुण्यं सुदुर्लभं गोप्यं शमथप्रदमौषधम् ।
ककारमातृकाबृंहं गुर्वनुग्रहसिद्धिदम् ॥ ३० ॥
यो जपेत्परया भक्त्या प्रेमध्यानपरः सदा ।
गुरुप्रसादाल्लभते वरं सर्वमभीप्सितम् ॥ ३१ ॥
इति श्री कालभैरव ककार अष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.