Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हनुमानञ्जनापुत्रो वायुसूनुर्महाबलः ।
रामदूतो हरिश्रेष्ठः सूरी केसरिनन्दनः ॥ १ ॥
सूर्यश्रेष्ठो महाकायो वज्री वज्रप्रहारवान् ।
महासत्त्वो महारूपो ब्रह्मण्यो ब्राह्मणप्रियः ॥ २ ॥
मुख्यप्राणो महाभीमः पूर्णप्रज्ञो महागुरुः ।
ब्रह्मचारी वृक्षधरः पुण्यः श्रीरामकिङ्करः ॥ ३ ॥
सीताशोकविनाशी च सिंहिकाप्राणनाशकः ।
मैनाकगर्वभङ्गश्च छायाग्रहनिवारकः ॥ ४ ॥
लङ्कामोक्षप्रदो देवः सीतामार्गणतत्परः ।
रामाङ्गुलिप्रदाता च सीताहर्षविवर्धनः ॥ ५ ॥
महारूपधरो दिव्यो ह्यशोकवननाशकः ।
मन्त्रिपुत्रहरो वीरः पञ्चसेनाग्रमर्दनः ॥ ६ ॥
दशकण्ठसुतघ्नश्च ब्रह्मास्त्रवशगोऽव्ययः ।
दशास्यसल्लापपरो लङ्कापुरविदाहकः ॥ ७ ॥
तीर्णाब्धिः कपिराजश्च कपियूथप्ररञ्जकः ।
चूडामणिप्रदाता च श्रीवश्यः प्रियदर्शकः ॥ ८ ॥
कौपीनकुण्डलधरः कनकाङ्गदभूषणः ।
सर्वशास्त्रसुसम्पन्नः सर्वज्ञो ज्ञानदोत्तमः ॥ ९ ॥
मुख्यप्राणो महावेगः शब्दशास्त्रविशारदः ।
बुद्धिमान् सर्वलोकेशः सुरेशो लोकरञ्जकः ॥ १० ॥
लोकनाथो महादर्पः सर्वभूतभयापहः ।
रामवाहनरूपश्च सञ्जीवाचलभेदकः ॥ ११ ॥
कपीनां प्राणदाता च लक्ष्मणप्राणरक्षकः ।
रामपादसमीपस्थो लोहितास्यो महाहनुः ॥ १२ ॥
रामसन्देशकर्ता च भरतानन्दवर्धनः ।
रामाभिषेकलोलश्च रामकार्यधुरन्धरः ॥ १३ ॥
कुन्तीगर्भसमुत्पन्नो भीमो भीमपराक्रमः ।
लाक्षागृहाद्विनिर्मुक्तो हिडिम्बासुरमर्दनः ॥ १४ ॥
धर्मानुजः पाण्डुपुत्रो धनञ्जयसहायवान् ।
बलासुरवधोद्युक्तस्तद्ग्रामपरिरक्षकः ॥ १५ ॥
भिक्षाहाररतो नित्यं कुलालगृहमध्यगः ।
पाञ्चाल्युद्वाहसञ्जातसम्मोदो बहुकान्तिमान् ॥ १६ ॥
विराटनगरे गूढचरः कीचकमर्दनः ।
दुर्योधननिहन्ता च जरासन्धविमर्दनः ॥ १७ ॥
सौगन्धिकापहर्ता च द्रौपदीप्राणवल्लभः ।
पूर्णबोधो व्यासशिष्यो यतिरूपो महामतिः ॥ १८ ॥
दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डनः ।
बौद्धागमविभेत्ता च साङ्ख्यशास्त्रस्य दूषकः ॥ १९ ॥
द्वैतशास्त्रप्रणेता च वेदव्यासमतानुगः ।
पूर्णानन्दः पूर्णसत्वः पूर्णवैराग्यसागरः ॥ २० ॥
अष्टोत्तरशतं दिव्यं वायुसूनोर्महात्मनः ।
यः पठेच्छ्रद्धया नित्यं सर्वबन्धात् प्रमुच्यते ॥ २१ ॥
इति श्रीपद्मोत्तरखण्डे श्री हनुमान् अष्टोत्तरशतनाम स्तोत्रम् ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.