Site icon Stotra Nidhi

Sri Gurumurthy Mangalam – श्री गुरुमूर्ति मङ्गल स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

वरदानकराब्जाय वटमूलनिवासिने ।
वदान्याय वरेण्याय वामदेवाय मङ्गलम् ॥ १ ॥

वल्लीशविघ्नराजाभ्यां वन्दिताय वरीयसे ।
विश्वार्तिहरणायाऽस्तु विश्वनाथाय मङ्गलम् ॥ २ ॥

कल्याणवरदानाय करुणानिधये कलौ ।
कमलापतिकान्ताय कल्परूपाय मङ्गलम् ॥ ३ ॥

सर्वारिष्टविनाशाय सर्वाभीष्टप्रदायिने ।
सर्वमङ्गलरूपाय सद्योजाताय मङ्गलम् ॥ ४ ॥

ईतिभीतिनिवाराय चेतिहासाऽभिवादिने ।
ईषणात्रयहाराय चेशानोर्ध्वाय मङ्गलम् ॥ ५ ॥

अतिसौम्याऽतिरुद्राय अविरुद्धाय शूलिने ।
अमलाय महेशाय अघोरेशाय मङ्गलम् ॥ ६ ॥

दूर्वासादिप्रपूज्याय दुष्टनिग्रहकारिणे ।
दूरीकृताय दुःखानां धूलिधाराय मङ्गलम् ॥ ७ ॥

हृदयाम्बुजवासाय हराय परमात्मने ।
हरिकेशाय हृद्याय हंसरूपाय मङ्गलम् ॥ ८ ॥

ककुद्वाहाय कल्पाय कल्पितानेकभूतिने ।
कमलालयवासाय करुणाक्षाय मङ्गलम् ॥ ९ ॥

नकाराय नटेशाय नन्दिविद्याविधायिने ।
नदीचन्द्रजटेशाय नादरूपाय मङ्गलम् ॥ १० ॥

मकाराय महेशाय मन्दहासेनभासिने ।
महनीय मनोरम्य माननीयाय मङ्गलम् ॥ ११ ॥

शिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे ।
सुलभाय सुशीलाय शिकाराद्याय मङ्गलम् ॥ १२ ॥

वसिष्ठादिभिरर्च्याय विशिष्टाचारवर्तिने ।
विष्णुब्रह्मादिवन्द्याय वकाराख्याय मङ्गलम् ॥ १३ ॥

यतिसेव्याय याम्याय यज्ञसाद्गुण्यदायिने ।
यज्ञेशाय यमान्ताय यकारान्ताय मङ्गलम् ॥ १४ ॥

अरुणाचलपूज्याय तरुणारुणभासिने ।
कलिकल्मषनाशाय मङ्गलं गुरुमूर्तये ॥ १५ ॥

गुरुमूर्तेरिदं स्तोत्रं सुप्रभाताभिदं शुभम् ।
पठतां श्रीरवाप्नोति भुक्तिमुक्तिप्रदेरिता ॥ १६ ॥

इति श्री गुरुमूर्ति मङ्गल स्तोत्रम् ॥


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments