Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥
ओं ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरञ्जीविनमुपसमेत्य पप्रच्छुः ।
केन त्वं चिरं जीवसि । केन वाऽऽनन्दमनुभवसीति । परमरहस्य शिवतत्त्वज्ञानेनेति स होवाच । किं तत् परमरहस्य शिवतत्त्वज्ञानम् । तत्र को देवः । के मन्त्राः । को जपः । का मुद्रा । का निष्ठा । किं तत् ज्ञानसाधनम् । कः परिकरः । को बलिः । कः कालः । किं तत् स्थानमिति । स होवाच ।
येन दक्षिणाभिमुखः शिवोऽपरोक्षीकृतो भवति तत् परमरहस्य शिवतत्त्वज्ञानम् । यः सर्वोपरमकाले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः ।
– चतुर्विंशाक्षर मनुः –
अत्रैते मन्त्ररहस्यश्लोका भवन्ति । अस्य मेधादक्षिणामूर्तिमन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः ।
ओमादौ नम उच्चार्य ततो भगवते पदम् ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां ततो वदेत् ।
प्रमुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥
ध्यानम् –
स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
-ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥
[** ओं नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा **]
– नवाक्षर मनुः –
ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
पञ्चार्णं तत उद्धृत्य तत्पुनः सविसर्गकम् ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥
ध्यानम् –
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिवृतो भावसिद्धिं भवो नः ॥
[** ओं अः शिवाय नम अः ओं **]
– अष्टादशाक्षर मनुः –
ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं ब्लूं नम उच्चार्य मायां वाग्भवमेव च ।
दक्षिणा पदमुच्चार्य ततः स्यान्मूर्तये पदम् ।
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो वदेत् ।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥
ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥
[** ओं ब्लूं नमो ह्रीं ऐं दक्षिणामूर्तये ज्ञानं देहि स्वाहा **]
– द्वादशाक्षर मनुः –
ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं मायां रमाबीजं पदं साम्बशिवाय च ।
तुभ्यं चानलजायां तु मनुर्द्वादशवर्णकः ॥
ध्यानम् –
वीणां करैः पुस्तकमक्षमालां
बिभ्राणमभ्राभगलं वराढ्यम् ।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः
सेव्यं वटाधः कृतनीडमीडे ॥
[** ओं ह्रीं श्रीं साम्बशिवाय तुभ्यं स्वाहा **]
– अनुष्टुभो मन्त्रराजः –
विष्णुरृषिः । अनुष्टुप् छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं नमो भगवते तुभ्यं वट पदं ततः ।
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ।
वागीशाय पदं पश्चान्महाज्ञान पदं ततः ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ।
अनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥
ध्यानम् –
मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
मुक्ताहारविभूषितं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
न्यग्रोधान्तनिवासिनं परगुरुं ध्यायेदभीष्टाप्तये ॥
[** ओं नमो भगवते तुभ्यं वटमूलवासिने ।
वागीशाय महाज्ञानदायिने मायिने नमः ॥ **]
मौनं मुद्रा । सोऽहमिति यावदास्थितिः । सा निष्ठा भवति । तदभेदेन मन्वाम्रेडनं ज्ञानसाधनम् । चित्ते तदेकतानता परिकरः । अङ्गचेष्टार्पणं बलिः । त्रीणि धामानि कालः । द्वादशान्तपदं स्थानमिति ।
ते ह पुनः श्रद्धधानास्तं प्रत्यूचुः । कथं वाऽस्योदयः । किं स्वरूपम् । को वाऽस्योपासक इति । स होवाच ॥
वैराग्यतैलसम्पूर्णे भक्तिवर्तिसमन्विते ।
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥
मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥
गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।
मोहभानुजसङ्क्रान्तं विवेकाख्यं मृकण्डुजम् ॥
तत्त्वाविचारपाशेन बद्धद्वैतभयातुरम् ।
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥
सर्गादिकाले भगवान् विरिञ्चि-
-रुपास्यैनं सर्गसामर्थ्यमाप्य ।
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा
धन्यः सोस्योपासको भवति धाता ॥
– अध्ययन फलम् –
य इमां परमरहस्य शिवतत्त्वविद्यामधीते । स सर्वपापेभ्यो मुक्तो भवति । य एवं वेद । स कैवल्यमनुभवति । इत्युपनिषत् ॥
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥
इति श्री दक्षिणामूर्त्युपनिषत् ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.