Site icon Stotra Nidhi

Sri Dakshinamurthy Panjaram – श्री दक्षिणामूर्ति पञ्जरम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

प्रणम्य साम्बमीशानां शिरसा वैणिको मुनिः ।
विनयाऽवनतो भूत्वा पप्रच्छ स्कन्दमादरात् ॥ १ ॥

नारद उवाच ।
भगवन् परमेशान सम्प्राप्ताखिलशास्त्रक ।
स्कन्दसेनापते स्वामिन् पार्वतीप्रियनन्दन ॥ २ ॥

यज्जपात् कविता विद्या शिवे भक्तिश्च शाश्वती ।
अवाप्तिरणिमादीनां सम्पदां प्राप्तिरेव च ॥ ३ ॥

भूतप्रेतपिशाचानामगम्यत्वमरोगता ।
महाविज्ञानसम्प्राप्तिर्महाराजविपूजनम् ॥ ४ ॥

वरप्रसादो देवानां महाभोगार्थसम्भवः ।
नष्टराज्यश्च सिद्धिश्च तथा निगलमोचनम् ॥ ५ ॥

ऋणदारिद्र्यनाशश्च तनयप्राप्तिरेव च ।
अश्रुतस्य प्रबन्धस्य सम्यग्व्याख्यानपाटवम् ॥ ६ ॥

प्रतिभोन्मेषणं चैव प्रबन्धरचना तथा ।
भवन्त्यचिरकालेन तद्र्बूहि हर सुप्रजः ॥ ७ ॥

स्कन्द उवाच ।
साधु पृष्टं महाभाग कमलासनसत्सुत ।
त्वयैन पृष्टमेतद्धि जगतामुपकारकम् ॥ ८ ॥

बाल एव पुरा सोऽहं स्वपनं प्राप्तवान् यदा ।
तदा मे निकटं प्राप्य दक्षिणामूर्तिरूपधृत् ॥ ९ ॥

पिता मे पञ्जरं स्वस्य सर्वविज्ञानदायकम् ।
उपादिशदहं तेन विज्ञानमगमं धृवम् ॥ १० ॥

देवसेनापति त्वं च तारकस्य जयं तथा ।
विद्यामयोऽहं भगवन् तज्जपान्मुनिसत्तम ॥ ११ ॥

सदा तस्य जपं कुर्यादात्मनः क्षेमकृद्यदि ।
इतः पूर्वं न कस्यापि मया नोक्तं यतव्रत ॥ १२ ॥

उपदेशं तवैवाद्य करवाणि शुभाप्तये ।
त्वन्मुखादेव लोकेषु प्रसिद्धं च गमिष्यति ॥ १३ ॥

ऋषिस्तस्य शुकः प्रोक्तश्छन्धोऽनुष्टुबुदाहृतम् ।
देवता दक्षिणामूर्तिः प्रणवो बीजमिष्यते ॥ १४ ॥

स्वाहा शक्तिः समुच्चार्य नमः कीलकमुच्यते ।
वर्णः शुक्लः समाख्यातो वाञ्छितार्थे नियुज्यते ॥ १५ ॥

ततः साम्बं शिवं ध्यायेद्दक्षिणामूर्तिमव्ययम् ।
छायापिहितविश्वस्य मूले न्यग्रोधशाखिनः ॥ १६ ॥

मणिसिंहासनासीनं मुनिबृन्दनिषेवितम् ।
वरभूषणदीप्ताङ्गं माणिक्यमकुटोज्ज्वलम् ॥ १७ ॥

मन्दाकिनीजलस्पर्धि प्रभाभासितविग्रहम् ।
शुक्लवस्त्रपरीधानं शुक्लमाल्यानुलेपनम् ॥ १८ ॥

स्फाटिकीमक्षमालां च वह्निं च भुजगाधिपम् ।
पुस्तकं च करैर्दिव्यैर्दधानं चन्द्रशेखरम् ॥ १९ ॥

मञ्जुमञ्जीरनिनदैराकृष्टाखिलसारसम् ।
केयूरकोटिविलसद्वरमाणिक्यदीप्तिभिः ॥ २० ॥

तेजिताशेषभुवनं तेजसामेकसंश्रयम् ।
जाह्नवीसलिलोन्मग्न जटामण्डलमण्डितम् ॥ २१ ॥

उत्फुल्लकमलोदारचक्षुषं करुणानिधिम् ।
भुजङ्गशिशु वित्रस्त कुरङ्गशिशुमण्डितम् ॥ २२ ॥

अग्रेन्द्रतनयासक्तवराङ्गमतुलप्रभम् ।
पादशुश्रूषणासक्त नाकनारीसमावृतम् ॥ २३ ॥

कैलासशृङ्गसङ्काश महोक्षवरवाहनम् ।
ब्रह्मादिभिरभिध्येयं ब्रह्मण्यं ब्रह्मनिष्ठितम् ॥ २४ ॥

प्राचीनानामपि गिरामगोचरमनामयम् ।
ध्यायन्नेवं महादेवं प्रजपेत्पञ्जरं शुभम् ॥ २५ ॥

अस्य श्रीदक्षिणामूर्ति पञ्जर महामन्त्रस्य श्री शुक ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणामूर्तिर्देवता ओं बीजं स्वाहा शक्तिः नमः कीलकं श्री दक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ।

आं ईं ऊं ऐं औं अः इति न्यासः ॥

ध्यानम् –
वटमूलनिवासबद्धतृष्णं
मुनिनिकराय विवेकमादिशन्तम् ।
पशुपतिमगराजकन्यकायै
स्मरहृदयाशु विकीर्ण वामभागम् ॥

वीरासनैकनिलयाय हिरण्मयाय
न्यग्रोधमूलगृहिणे निटलेक्षणाय ।
गङ्गाधराय गजचर्मविभूषणाय
प्राचीनपुण्यपुरुषाय नमः शिवाय ॥

मुद्रा पुस्तक वह्नि नागविलसद्बाहुं प्रसन्नासनं
मुक्ताहारविभूषितं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
न्यग्रोधात्तनिवासिनं परगुरुं ध्यायेदभीष्टाप्तये ॥

शिरो मे दक्षिणामूर्तिः पातु पाशविमोचकः ।
फालं पातु महादेवः पातु मे विश्वदृग्दृशौ ॥ १ ॥

श्रवणे पातु विश्वात्मा पातु गण्डस्थलं हरः ।
शिवो मे नासिकां पातु ताल्वोष्ठौ पार्वतीपतिः ॥ २ ॥

जिह्वां मे पातु विद्यात्मा दन्तान् पातु वृषध्वजः ।
चुबुकं पातु सर्वात्मा श्रीकण्ठः कण्ठमेवतु ॥ ३ ॥

स्कन्धौ पातु वृषस्कन्धः शूलपाणिः करौ मम ।
सर्वज्ञो हृदयं पातु स्तनौ पातु गजान्तकः ॥ ४ ॥

वक्षो मृत्युञ्जयः पातु कुक्षिं कुक्षिस्थविष्टपः ।
शर्वो वलित्रयं पातु पातु नाभिं गिरीश्वरः ॥ ५ ॥

व्योमकेशः कटिं पातु गुह्यं पातु पुरान्तकः ।
ऊरू पातु मघध्वंसी जानुनी पातु शङ्करः ॥ ६ ॥

जङ्घे पातु जगत् स्रष्टा गुल्फौ पातु जगद्गुरुः ।
अपस्मारौपमर्दी मे पादौ पातु महेश्वरः ॥ ७ ॥

रोमाणि व्योमकेशो मे पातु मांसं पिनाकधृत् ।
दारान् पातु विरूपाक्षः पुत्रान् पातु जटाधरः ॥ ८ ॥

पशून् पशुपतिः पातु भ्रातॄन् भूतेश्वरो मम ।
रक्षाहीनं तु यत् स्थानं सर्वतः पातु शङ्करः ॥ ९ ॥

इतीदं पञ्जरं यस्तु पठेन्नित्यं समाहितः ।
गद्यपद्यात्मिका वाणी मुखान्निस्सरति ध्रुवम् ॥ १० ॥

व्याचष्टे ह्यश्रुतं शास्त्रं तनुते काव्यनाटकम् ।
शास्त्रषट्कं चतुर्वेदाः समयाः षट्तथैव च ॥ ११ ॥

स्वयमेव प्रकाशं ते नात्र कार्या विचारणा ।
तस्य गेहे महालक्ष्मीः सन्निधत्ते सदाऽनघ ॥ १२ ॥

तस्य कात्यायनी देवी प्रसन्ना वरदा भवेत् ।
आधयो व्याधयश्चापि न भवन्ति कदाचन ॥ १३ ॥

स च नाशयते नित्यं कालमृत्युमपि ध्रुवम् ।
जपेदवश्यं विद्यार्थी ग्रहणे चन्द्रसूर्ययोः ॥ १४ ॥

दक्षिणामूर्तिदेवस्य प्रासादात् पण्डितो भवेत् ।
भक्तिश्रद्धे पुरस्कृत्य दक्षिणामूर्तिपञ्जरम् ॥ १५ ॥

जपित्वा कवितां विद्यां प्राप्नुयात् सर्वमाप्नुयात् ।
जलमध्ये स्थिरो भूत्वा जपित्वा पञ्जरोत्तमम् ॥ १६ ॥

भूतप्रेतपिशाचादीन्नाशयेन्नात्र संशयः ।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ १७ ॥

मुच्यते ब्रह्महत्याया अपि नारदसत्तम ।
त्रिसन्ध्यं पञ्जरमिदमावर्तयति यः पुमान् ॥ १८ ॥

किं न सिद्ध्यति तस्यात्र सुकृतं मुनिसत्तम ।
तेनेष्टं राजसूयेन कृतं दानादिकेन च ॥ १९ ॥

पुंशब्दवाच्यः स पुमान् पुण्यानां भाजनं स च ।
रोगमुक्तः स एव स्यादतुलां कीर्तिमाप्नुयात् ॥ २० ॥

पुत्राः कुलकरास्तस्य सम्पद्यन्ते न संशयः ।
आप्नुयादखिलं राज्यं तथा बन्धविमोचनम् ॥ २१ ॥

पूज्यते पार्थिवस्थाने तस्य वश्या वराङ्गनाः ।
बन्धूनां रक्षणे भूयात् समानेषूत्तमो भवेत् ॥ २२ ॥

इह भुक्त्वाऽखिलान् भोगान् तथैवामुष्मिकानपि ।
कैलासे सुचिरं स्थित्वा दक्षिणामूर्तिसन्निधौ ॥ २३ ॥

तस्मादवाप्य विज्ञानं प्राप्य रुद्रत्वमेव च ।
विलयं याति तत्त्वार्थी नात्र कार्या विचारणा ॥ २४ ॥

तस्मात् सर्वप्रयत्नेन मोक्षार्थी सर्वदा पुमान् ।
इदमावर्तयेन्नित्यं दक्षिणामूर्ति पञ्जरम् ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ २५ ॥

इति गुहनारदसंवादे श्री दक्षिणामूर्ति पञ्जरम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments