Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री बगला प्रत्यङ्गिरा मन्त्रस्य नारद ऋषिः त्रिष्टुप् छन्दः प्रत्यङ्गिरा देवता ह्लीं बीजं हूं शक्तिः ह्रीं कीलकं मम शत्रुनाशने विनियोगः ॥
मन्त्रः –
ओं प्रत्यङ्गिरायै नमः । प्रत्यङ्गिरे सकल कामान् साधय मम रक्षां कुरु कुरु सर्वान् शत्रून् खादय खादय मारय मारय घातय घातय ओं ह्रीं फट् स्वाहा ॥
कवचम् –
भ्रामिणी स्तम्भिनी देवी क्षोभिणी मोहिनी तथा ।
संहारिणी द्राविणी च जृम्भिणी रौद्ररूपिणी ॥ १ ॥
इत्यष्टौ शक्तयो देवि शत्रुपक्षे नियोजिताः ।
धारयेत् कण्ठदेशे च सर्वशत्रुविनाशिनी ॥ २ ॥
ओं ह्रीं भ्रामिणी मम शत्रून् भ्रामय भ्रामय ओं ह्रीं स्वाहा ।
ओं ह्रीं स्तम्भिनी मम शत्रून् स्तम्भय स्तम्भय ओं ह्रीं स्वाहा ।
ओं ह्रीं क्षोभिणी मम शत्रून् क्षोभय क्षोभय ओं ह्रीं स्वाहा ।
ओं ह्रीं मोहिनी मम शत्रून् मोहय मोहय ओं ह्रीं स्वाहा ।
ओं ह्रीं संहारिणी मम शत्रून् संहारय संहारय ओं ह्रीं स्वाहा ।
ओं ह्रीं द्राविणी मम शत्रून् द्रावय द्रावय ओं ह्रीं स्वाहा ।
ओं ह्रीं जृम्भिणी मम शत्रून् जृम्भय जृम्भय ओं ह्रीं स्वाहा ।
ओं ह्रीं रौद्री मम शत्रून् सन्तापय सन्तापय ओं ह्रीं स्वाहा ॥ ३ ॥
फलश्रुतिः –
इयं विद्या महाविद्या सर्वशत्रुनिवारिणी ।
धारिता साधकेन्द्रेण सर्वान् दुष्टान् विनाशयेत् ॥ ४ ॥
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत् स्थिरमानसः ।
न तस्य दुर्लभं लोके कल्पवृक्ष इव स्थितः ॥ ५ ॥
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
स एव दासतां याति सारात्सारामिमं मनुम् ॥ ६ ॥
इति श्रीरुद्रयामले शिवपार्वतिसंवादे श्री बगला प्रत्यङ्गिरा कवचम् ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.