Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारद उवाच ।
पुनर्दैत्यान् समायातान् दृष्ट्वा देवाः सवासवाः ।
भयात्प्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥
देवा ऊचुः ।
नमो मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे
गदाशङ्खपद्मारिहस्ताय तेऽस्तु ॥ २ ॥
रमावल्लभायाऽसुराणां निहन्त्रे
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रे विकर्त्रे
शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥
नमो दैत्यसन्तापितामर्त्यदुःखा-
-चलध्वंसदम्भोलये विष्णवे ते ।
भुजङ्गेशतल्पेशयानाऽर्कचन्द्र-
-द्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४ ॥
नारद उवाच ।
सङ्कष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥ ५ ॥
इति पद्मपुराणे पृथुनारदसंवादे सङ्कष्टनाशन विष्णु स्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.