Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(पुस्तक: यह स्तोत्र “प्रभात स्तोत्रनिधि (देवनागरी)” पुस्तकमें मुद्रित है । Click here to buy.)
स्कन्द उवाच ।
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।
ब्रह्मोवाच ।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥
अस्य श्री अङ्गारक स्तोत्र महामन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।
ध्यानम् –
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १ ॥
अथ स्तोत्रम् –
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ २ ॥
लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ।
धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ ३ ॥
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ४ ॥
भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः ।
एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ ५ ॥
रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ६ ॥
ऋणरेखाः प्रकर्तव्याः दग्धाङ्गारैस्तदग्रतः ।
सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ ७ ॥
ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।
एवं कृत्वा न सन्देहो ऋणहीनो धनी भवेत् ॥ ८ ॥
भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।
येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ ९ ॥
शत्रवश्च हता येन भौमेन महितात्मना ।
स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम ॥ १० ॥
मूलमन्त्रः –
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय ॥ ११ ॥
अर्घ्यम् –
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १२ ॥
इति ऋण विमोचन अङ्गारक स्तोत्रम् ॥
टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।
प्रभात स्तोत्रनिधि
( पारायण ग्रन्थम् )
इतर नवग्रह स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.