Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारायणीयं एकोनचत्वारिंशदशकम् (३९) – योगमाया प्रादुर्भावं तथा गोकुले कृष्णजन्मोत्सवम्
भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्
ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितो
जलौघ इव तत् क्षणात् प्रपदमेयतामाययौ ॥ ३९-१ ॥
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-
-मपावृतकवाटिकां पशुपवाटिकामाविशन् ।
भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा-
-द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ ३९-२ ॥
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव-
-द्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा-
-डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ ३९-३ ॥
ध्रुवं कपटशालिनो मधुहरस्य माया भवे-
-दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् ।
द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप-
-न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ ३९-४ ॥
ततो भवदुपासको झटिति मृत्युपाशादिव
प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर-
-न्महायुधमहो गता किल विहायसा दिद्युते ॥ ३९-५ ॥
नृशंसतर कंस ते किमु मया विनिष्पिष्टया
बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी
मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ ३९-६ ॥
प्रगे पुनरगात्मजावचनमीरिता भूभुजा
प्रलम्बबकपूतनाप्रमुखदानवा मानिनः ।
भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ ३९-७ ॥
ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया-
-प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ ३९-८ ॥
अहो खलु यशोदया नवकलायचेतोहरं
भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ३९-९ ॥
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
प्रमोदभरसङ्कुलो द्विजकुलाय किं नाददात् ।
तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
जगत्त्रितयमङ्गल त्वमिह पाहि मामामयात् ॥ ३९-१० ॥
इति एकोनचत्वारिंशदशकं समाप्तम् ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.