Site icon Stotra Nidhi

Devi Bhagavatam Skanda 12 Chapter 9 – श्रीमद्देवीभागवते द्वादशस्कन्धे नवमोऽध्यायः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

<< श्रीमद्देवीभागवते द्वादशस्कन्धे अष्टमोऽध्यायः

(ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम्)

व्यास उवाच ।
कदाचिदथ काले तु दशपञ्च समा विभो ।
प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः ॥ १ ॥

अनावृष्ट्याऽतिदुर्भिक्षमभवत् क्षयकारकम् ।
गृहे गृहे शवानां तु सङ्ख्या कर्तुं न शक्यते ॥ २ ॥

केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः ।
शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः ॥ ३ ॥

बालकं बालजननी स्त्रियं पुरुष एव च ।
भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः ॥ ४ ॥

ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् ।
तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति ॥ ५ ॥

सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना ।
गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना ॥ ६ ॥

सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः ।
एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः ॥ ७ ॥

सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः ।
पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः ॥ ८ ॥

पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः ।
दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः ॥ ९ ॥

आसनाद्युपचारैश्च पूजयामास वाडवान् ।
चकार कुशलप्रश्नं ततश्चागमकारणम् ॥ १० ॥

ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः ।
दृष्ट्वा तान् दुःखितान् विप्रानभयं दत्तवान् मुनिः ॥ ११ ॥

युष्माकमेतत् सदनं भवद्दासोऽस्मि सर्वथा ।
का चिन्ता भवतां विप्रा मयि दासे विराजति ॥ १२ ॥

धन्योऽहमस्मिन् समये यूयं सर्वे तपोधनाः ।
येषां दर्शनमात्रेण दुष्कृतं सुकृतायते ॥ १३ ॥

ते सर्वे पादरजसा पावयन्ति गृहं मम ।
को मदन्यो भवेद्धन्यो भवतां समनुग्रहात् ॥ १४ ॥

स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः ।
व्यास उवाच ।
इति सर्वान् समाश्वास्य गौतमो मुनिराट् ततः ॥ १५ ॥

गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः ।
नमो देवि महाविद्ये वेदमातः परात्परे ॥ १६ ॥

व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि ।
साम्यावस्थात्मिके मातर्नमो ह्रीङ्काररूपिणि ॥ १७ ॥

स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् ।
भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम् ॥ १८ ॥

तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् ।
सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम् ॥ १९ ॥

प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् ।
सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम् ॥ २० ॥

सर्वभूतारणे देवि क्षमस्व परमेश्वरि ।
इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ ॥ २१ ॥

पूर्णपात्रं ददौ तस्मै येन स्यात् सर्वपोषणम् ।
उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि ॥ २२ ॥

तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति ।
इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला ॥ २३ ॥

अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः ।
षड्रसा विविधा राजंस्तृणानि विविधानि च ॥ २४ ॥

भूषणानि च दिव्यानि क्षौमाणि वसनानि च ।
यज्ञानां च समारम्भाः पात्राणि विविधानि च ॥ २५ ॥

यद्यदिष्टमभूद्राजन् मुनेस्तस्य महात्मनः ।
तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः ॥ २६ ॥

अथाहूय मुनीन् सर्वान्मुनिराड्गौतमस्तदा ।
धनं धान्यं भूषणानि वसनानि ददौ मुदा ॥ २७ ॥

गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः ।
निर्गतान् यज्ञसम्भारान् स्रुक् स्रुवप्रभृतीन् ददौ ॥ २८ ॥

ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः ।
स्थानं तदेव भूयिष्ठमभवत् स्वर्गसन्निभम् ॥ २९ ॥

यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते ।
तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः ॥ ३० ॥

देवाङ्गनासमा दाराः शोभन्ते भूषणादिभिः ।
मुनयो देवसदृशा वस्त्रचन्दनभूषणैः ॥ ३१ ॥

नित्योत्सवः प्रववृते मुनेराश्रममण्डले ।
न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित् ॥ ३२ ॥

स मुनेराश्रमो जातः समन्ताच्छतयोजनः ।
अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः ॥ ३३ ॥

तांश्च सर्वान् पुपोषायं दत्त्वाऽभयमथात्मवान् ।
नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः ॥ ३४ ॥

सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः ।
सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः ॥ ३५ ॥

अहो अयं नः किल कल्पपादपो
मनोरथान् पूरयति प्रतिष्ठितः ।
नोचेदकाण्डे क्व हविर्वपा वा
सुदुर्लभा यत्र तु जीवनाशा ॥ ३६ ॥

इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्गवान् ।
पुत्रवन्मुनिराड्गर्वगन्धेन परिवर्जितः ॥ ३७ ॥

गायत्र्याः परमं स्थानं चकार मुनिसत्तमः ।
यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका ॥ ३८ ॥

त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः ।
अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते ॥ ३९ ॥

मध्याह्ने युवती वृद्धा सायङ्काले तु दृश्यते ।
तत्रैकदा समायातो नारदो मुनिसत्तमः ॥ ४० ॥

रणयन्महतीं गायन् गायत्र्याः परमान् गुणान् ।
निषसाद सभामध्ये मुनीनां भावितात्मनाम् ॥ ४१ ॥

गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः ।
कथाश्चकार विविधा यशसो गौतमस्य च ॥ ४२ ॥

ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः ।
जगौ बहुविधं स्वच्छं मुनिपोषणजं परम् ॥ ४३ ॥

श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः ।
धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः ॥ ४४ ॥

इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ ।
ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः ॥ ४५ ॥

तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः ।
अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः ॥ ४६ ॥

उत्कर्षं तु मुनेः श्रुत्वाऽसूयया खेदमागताः ।
यथाऽस्य न यशो भूयात् कर्तव्यं सर्वथैव हि ॥ ४७ ॥

काले समागते पश्चादिति सर्वैस्तु निश्चितम् ।
ततः कालेन कियताऽप्यभूद्वृष्टिर्धरातले ॥ ४८ ॥

सुभिक्षमभवत् सर्वदेशेषु नृपसत्तम ।
श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः ॥ ४९ ॥

गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे ।
धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी ॥ ५० ॥

कालस्य महिमा राजन् वक्तुं केन हि शक्यते ।
गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप ॥ ५१ ॥

जगाम सा च शालायां होमकाले मुनेस्तदा ।
हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत् क्षणे ॥ ५२ ॥

गौर्हताऽनेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः ।
होमं समाप्य मुनिराड्विस्मयं परमं गतः ॥ ५३ ॥

समाधिमीलिताक्षः संश्चिन्तयामास कारणम् ।
कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः ॥ ५४ ॥

दधार कोपं परमं प्रलये रुद्रकोपवत् ।
शशाप च ऋषीन् सर्वान् कोपसंरक्तलोचनः ॥ ५५ ॥

वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे ।
भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः ॥ ५६ ॥

वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५७ ॥

शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५८ ॥

मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५९ ॥

देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६० ॥

देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६१ ॥

देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६२ ॥

शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६३ ॥

रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६४ ॥

श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६५ ॥

अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६६ ॥

नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६७ ॥

स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६८ ॥

गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६९ ॥

कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ७० ॥

श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः ।
शङ्खचक्राद्यङ्किताश्च भवत ब्राह्मणाधमाः ॥ ७१ ॥

कापालिकमतासक्ता बौद्धशास्त्ररताः सदा ।
पाखण्डाचारनिरता भवत ब्राह्मणाधमाः ॥ ७२ ॥

पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा ।
भार्याविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७३ ॥

वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा ।
धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७४ ॥

पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते ।
बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥ ७५ ॥

मातृकन्यागामिनश्च भगिनीगामिनस्तथा ।
परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः ॥ ७६ ॥

युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा ।
मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः ॥ ७७ ॥

किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी ।
गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥ ७८ ॥

अन्धकूपादिकुण्डेषु युष्माकं स्यात् सदा स्थितिः ।
व्यास उवाच ।
वाग्दण्डमीदृशं कृत्वाऽप्युपस्पृश्य जलं ततः ॥ ७९ ॥

जगाम दर्शनार्थं च गायत्र्याः परमोत्सुकः ।
प्रणनाम महादेवीं साऽपि देवी परात्परा ॥ ८० ॥

ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह ।
अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥ ८१ ॥

उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा ।
भुजङ्गायार्पितं दुग्धं विषायैवोपजायते ॥ ८२ ॥

शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी ।
इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ॥ ८३ ॥

ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः ।
गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत् ॥ ८४ ॥

ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा ।
प्रणेमुर्मुनिवर्यं तं दण्डवत् पतिता भुवि ॥ ८५ ॥

नोचुः किञ्चन वाक्यं तु लज्जयाऽधोमुखाः स्थिताः ।
प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥ ८६ ॥

प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् ।
करुणापूर्णहृदयो मुनिस्तान् समुवाच ह ॥ ८७ ॥

कृष्णावतारपर्यन्तं कुम्भीपाके भवेत् स्थितिः ।
न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा ॥ ८८ ॥

ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् ।
मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा ॥ ८९ ॥

मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा ।
तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम् ॥ ९० ॥

व्यास उवाच ।
इति सर्वान् विसृज्याथ गौतमो मुनिसत्तमः ।
प्रारब्धमिति मत्वा तु चित्ते शान्तिं जगाम ह ॥ ९१ ॥

एतस्मात् कारणाद्राजन् गते कृष्णे तु धीमति ।
कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः ॥ ९२ ॥

भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये ।
सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः ॥ ९३ ॥

वेदभक्तिविहीनाश्च पाखण्डमतगामिनः ।
अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥ ९४ ॥

मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् ।
तप्तमुद्राङ्किताः केचित्कामाचाररताः परे ॥ ९५ ॥

कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे ।
पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः ॥ ९६ ॥

लम्पटाः परदारेषु दुराचारपरायणाः ।
कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः ॥ ९७ ॥

तस्मात् सर्वात्मना राजन् संसेव्या परमेश्वरी ।
न विष्णूपासना नित्या न शिवोपासना तथा ॥ ९८ ॥

नित्या चोपासना शक्तेर्यां विना तु पतत्यधः ।
सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयाऽनघ ॥ ९९ ॥

अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् ।
यत्परं स्थानमाद्याया भुवनेश्या भवारणेः ॥ १०० ॥

इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् नाम नवमोऽध्यायः ॥

श्रीमद्देवीभागवते द्वादशस्कन्धे दशमोऽध्यायः >>


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments