Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ चित्रकूटनिवासः ॥
अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् ।
प्रबोधयामास शनैः लक्ष्मणं रघुनन्दनः ॥ १ ॥
सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप ॥ २ ॥
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथिश्रमम् ॥ ३ ॥
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।
पन्थानमृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।
सीतां कमल पत्राक्षीमिदं वचनमब्रवीत् ॥ ५ ॥
आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् ।
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ ६ ॥
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।
फल पत्रैः अवनतान् नूनं शक्ष्यामि जीवितुम् ॥ ७ ॥
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण ।
मधूनि मधुकारीभिः सम्भृतानि नगे नगे ॥ ८ ॥
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।
रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ ९ ॥
मातङ्गयूथानुसृतं पक्षि सङ्घानुनादितम् ।
चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ १० ॥
समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।
पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥ ११ ॥
ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।
रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ १२ ॥
तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।
बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ॥ १३ ॥
मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायतः ।
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ १४ ॥
मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये ।
अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ १५ ॥
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।
अभिगम्याश्रमं सर्वे वाल्मीकि मभिवादयन् ॥ १६ ॥
तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।
आस्यतामिति चोवाच स्वागतं तु निवेद्य च ॥ १७ ॥
ततोऽब्रवीन्महाबाहुर्लकमणं लक्ष्मणाग्रजः ।
संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ॥ १८ ॥
लक्ष्मणानय दारूणि दृढानि च वराणि च ।
कुरुष्वावसथं सौम्य वासे मे अभिरतं मनः ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।
आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ २० ॥
तां निष्ठितां बद्धकटां दृष्ट्वा रमः सुदर्शनाम् ।
शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥ २१ ॥
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ।
कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥ २२ ॥
मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह शुभेक्षण ।
कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ २३ ॥
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।
चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ २४ ॥
ऐणेयं श्रपयस्वैतच्छालां यक्ष्यमहे वयम् ।
त्वरसौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ॥ २५ ॥
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ २६ ॥
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्न शोणितम् ।
लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ २७ ॥
अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगे यथा ।
देवतां देवसङ्काश यजस्व कुशलो ह्यसि ॥ २८ ॥
रामः स्नात्वा तु नियतः गुणवान् जप्यकोविदः ।
सङ्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥ २९ ॥
इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः ।
बभूव च मनोह्लादो रामस्यामिततेजसः ॥ ३० ॥
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।
वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ ३१ ॥
जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि ।
पाप संशमनं रामश्चकार बलिमुत्तमम् ॥ ३२ ॥
वेदिस्थलविधानानि चैत्यान्यायतनानि च ।
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ ३३ ॥
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।
अद्भिर्जपैश्च वेदोक्तैर्धर्भैश्च ससमित्कुशैः ॥ ३४ ॥
तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥ ३५ ॥
तां वृक्षपर्णच्छदनां मनोज्ञां
यथा प्रदेशं सुकृतां निवाताम् ।
वासाय सर्वे विविशुः समेताः
सभां यथा देवगणाः सुधर्माम् ॥ ३६ ॥
अनेकनानामृगपक्षिसङ्कुले
विचित्रपुष्पस्तबकैर्द्रुमैः युते ।
वनोत्तमे व्यालमृगानुनादिते
तथा विजह्रुः सुसुखं जितेन्द्रियाः ॥ ३७ ॥
सुरम्यमासाद्य तु चित्रकूटं
नदीं च तां माल्यवतीं सुतीर्थाम् ।
ननन्द हृष्टः मृग पक्षिजुष्टां
जहौ च दुःखं पुरविप्रवासात् ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥
अयोध्याकाण्ड सप्तपञ्चाशः सर्गः (५७) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.