Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कण्डुरुवाच ।
नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते ।
जगद्बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते ॥ १ ॥
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम ।
पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते ॥ २ ॥
हिरण्यगर्भ श्रीनाथ पद्मनाभ सनातन ।
भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते ॥ ३ ॥
अनाद्यन्तामृताजेय जय त्वं जयतां वर ।
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते ॥ ४ ॥
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित ।
दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते ॥ ५ ॥
भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल ।
भूताधिवास भूतात्मन् भूतगर्भ नमोऽस्तु ते ॥ ६ ॥
यज्ञयज्वन् यज्ञधर यज्ञधाताऽभयप्रद ।
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते ॥ ७ ॥
क्षेत्रज्ञ क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी ।
क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते ॥ ८ ॥
गुणालय गुणावास गुणाश्रय गुणावह ।
गुणभोक्तृ गुणाराम गुणत्यागिन्नमोऽस्तु ते ॥ ९ ॥
त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः ।
त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥ १० ॥
त्वं भूतकृत्त्वमव्यक्तस्त्वं भवो भूतभृद्भवान् ।
त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥ ११ ॥
त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः ।
त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥ १२ ॥
त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शम्भुस्त्वं वृषाकृतिः ।
त्वं शङ्करस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥ १३ ॥
त्वं विश्वजेता त्वं शर्म त्वं शरण्यस्त्वमक्षरम् ।
त्वं शम्भुस्त्वं स्वयम्भूश्च त्वं ज्येष्ठस्त्वं परायणः ॥ १४ ॥
त्वमादित्यस्त्वमोङ्कारस्त्वं प्राणस्त्वं तमिस्रहा ।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥ १५ ॥
त्वमृग्यजुः सामचैव त्वमात्मा सम्मतो भवान् ।
त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥ १६ ॥
त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः ।
त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥ १७ ॥
त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा ।
त्वमहस्त्वं तथारात्रिस्त्वामाहुर्वत्सरं बुधाः ॥ १८ ॥
त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः ।
त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान् स्त्री नपुंसकः ॥ १९ ॥
त्वं विश्वयोनिस्त्वं चक्षुस्त्वं वेदाङ्गं त्वमव्ययः ।
त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥ २० ॥
त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः ।
त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥ २१ ॥
त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् ।
त्वं सङ्ग्रहस्त्वं सुमहत् त्वं धृतात्मा त्वमच्युतः ॥ २२ ॥
त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः ।
त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते ॥ २३ ॥
त्वं गुरुस्त्वं गुरुतमस्त्वं वामस्त्वं प्रदक्षिणः ।
त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥ २४ ॥
हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः ।
अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥ २५ ॥
त्वं च सङ्कर्षणो देवस्त्वं कर्ता त्वं सनातनः ।
त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः ॥ २६ ॥
त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः ।
सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥ २७ ॥
सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः ।
त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥ २८ ॥
यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्र उत्तमः ।
यद्भाव्यं तत्त्वमीशानस्त्वमृतस्त्वं तथाऽमृतः ॥ २९ ॥
त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः ।
त्वं ज्यायान् पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥ ३० ॥
विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि ।
नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥ ३१ ॥
भागद्वयं च भूसंस्थं चतुर्भागोऽप्यभूदिह ।
त्वत्तो यज्ञाः सम्भवन्ति जगतो वृष्टिकारणम् ॥ ३२ ॥
त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान् ।
सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥ ३३ ॥
त्वत्तः सुराणामाहारः पृषदाज्यमजायत ।
ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥ ३४ ॥
ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः ।
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥ ३५ ॥
जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम् ।
त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥ ३६ ॥
अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा ।
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥ ३७ ॥
त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते ।
नमस्ते भगवन् विष्णो नमस्ते पुरुषोत्तम ॥ ३८ ॥
नमस्ते सर्वलोकेश नमस्ते कमलालय ।
गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर ॥ ३९ ॥
वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम ।
जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन ॥ ४० ॥
नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते ।
गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते ॥ ४१ ॥
जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते ।
दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते ॥ ४२ ॥
नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण ।
कैटभघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते ॥ ४३ ॥
नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत ।
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥ ४४ ॥
अश्वशीर्ष महाघोण महापुरुषविग्रह ।
मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥ ४५ ॥
महाकमठभोगाय पृथिव्युद्धरणाय च ।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥ ४६ ॥
नमो महावराहाय पृथिव्युद्धारकारिणे ।
नमश्चाऽऽदिवराहाय विश्वरूपाय वेधसे ॥ ४७ ॥
नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च ।
परमाणुस्वरूपाय योगिगम्याय ते नमः ॥ ४८ ॥
तस्मै नमः परम कारणकारणाय
योगीन्द्रवृत्तनिलयाय सुदुर्विदाय ।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय
तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥ ४९ ॥
इति श्रीब्रह्मपुराणे सप्तत्यधिकशततमोऽध्याये कण्डुमुनि कृत श्री विष्णु स्तुतिः ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.