Site icon Stotra Nidhi

Sri Vishnu Stavaraja 2 (Narasimha Purane) – श्री विष्णु स्तवराजः – २ (नरसिंहपुराणे)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीशुक उवाच ।
संसारवृक्षमारुह्य द्वन्द्वपाशशतैर्दृढैः ।
बध्यमानः सुतैश्वर्यैः पतितो योनिसागरे ॥ १ ॥

यः कामक्रोधलोभैस्तु विषयैः परिपीडितः ।
बद्धः स्वकर्मभिर्गौणैः पुत्रदारैषणादिभिः ॥ २ ॥

स केन निस्तरत्याशु दुस्तरं भवसागरम् ।
पृच्छाम्याख्याहि मे तात तस्य मुक्तिः कथं भवेत् ॥ ३ ॥

श्रीव्यास उवाच ।
शृणु वत्स महाप्राज्ञ यज्ज्ञात्वा मुक्तिमाप्नुयात् ।
तच्च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ॥ ४ ॥

नरके रौरवे घोरे धर्मज्ञानविवर्जिताः ।
स्वकर्मभिर्महादुःखं प्राप्ता यत्र यमालये ॥ ५ ॥

महापापकृतं घोरं सम्प्राप्ताः पापकृज्जनाः ।
आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ॥ ६ ॥

गङ्गाधरं महादेवं शङ्करं शूलपाणिनम् ।
प्रणम्य विधिवद्देवं नारदः परिपृच्छति ॥ ७ ॥

नारद उवाच ।
यः संसारे महाद्वन्द्वैः कामभोगैः शुभाशुभैः ।
शब्दादिविषयैर्बद्धः पीड्यमानः षडूर्मिभिः ॥ ८ ॥

कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात् ।
भगवन् ब्रूहि मे तत्त्वं श्रोतुमिच्छामि शङ्कर ॥ ९ ॥

तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः ।
उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥ १० ॥

महेश्वर उवाच ।
ज्ञानामृतं च गुह्यं च रहस्यमृषिसत्तम ।
वक्ष्यामि शृणु दुःखघ्नं सर्वबन्धभयापहम् ॥ ११ ॥

तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् ।
चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥ १२ ॥

तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते ।
स निस्तरति संसारं देवानामपि दुस्तरम् ॥ १३ ॥

भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः ।
संसारसुमहापङ्के जीर्णा गौरिव मज्जति ॥ १४ ॥

यस्त्वात्मानं निबध्नाति कर्मभिः कोशकारवत् ।
तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि ॥ १५ ॥

तस्मान्नारद सर्वेशं देवानां देवमव्ययम् ।
आराधयेत् सदा सम्यग्ध्यायेद्विष्णुं समाहितः ॥ १६ ॥

यस्तं विश्वमनाद्यन्तमाद्यं स्वात्मनि संस्थितम् ।
सर्वज्ञममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ १७ ॥

निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम् ।
वासुदेवमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ १८ ॥

निरञ्जनं परं शान्तमच्युतं भूतभावनम् ।
देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥ १९ ॥

सर्वपापविनिर्मुक्तमप्रमेयमलक्षणम् ।
निर्वाणमनघं विष्णुं सदा ध्यायन् विमुच्यते ॥ २० ॥

अमृतं परमानन्दं सर्वपापविवर्जितम् ।
ब्रह्मण्यं शङ्करं विष्णुं सदा सङ्कीर्त्य मुच्यते ॥ २१ ॥

योगेश्वरं पुराणाख्यमशरीरं गुहाशयम् ।
अमात्रमव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥ २२ ॥

शुभाशुभविनिर्मुक्तमूर्मिषट्कपरं विभुम् ।
अचिन्त्यममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ २३ ॥

सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम् ।
अप्रतर्क्यमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ २४ ॥

अनामगोत्रमद्वैतं चतुर्थं परमं पदम् ।
तं सर्वहृद्गतं विष्णुं सदा ध्यायन् विमुच्यते ॥ २५ ॥

अरूपं सत्यसङ्कल्पं शुद्धमाकाशवत्परम् ।
एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥ २६ ॥

सर्वात्मकं स्वभावस्थमात्मचैतन्यरूपकम् ।
शुभ्रमेकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥ २७ ॥

अनिर्वाच्यमविज्ञेयमक्षरादिमसम्भवम् ।
एकं नूत्नं सदा विष्णुं सदा ध्यायन् विमुच्यते ॥ २८ ॥

विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम् ।
स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते ॥ २९ ॥

सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम् ।
सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३० ॥

ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः ।
योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३१ ॥

विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः ।
विश्वेश्वरमजं विष्णुं कीर्तयन्नेव मुच्यते ॥ ३२ ॥

संसारबन्धनान्मुक्तिमिच्छन् काममशेषतः ।
भक्त्यैव वरदं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३३ ॥

व्यास उवाच ।
नारदेन पुरा पृष्ट एवं स वृषभध्वजः ।
यदुवाच तदा तस्मै तन्मया कथितं तव ॥ ३४ ॥

तमेव सततं ध्याहि निर्बीजं ब्रह्म केवलम् ।
अवाप्स्यसि ध्रुवं तात शाश्वतं पदमव्ययम् ॥ ३५ ॥

श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् ।
स विष्णुं सम्यगाराध्य परां सिद्धिमवाप्तवान् ॥ ३६ ॥

यश्चैनं पठते चैव नृसिंहकृतमानसः ।
शतजन्मकृतं पापमपि तस्य प्रणश्यति ॥ ३७ ॥

विष्णोः स्तवमिदं पुण्यं महादेवेन कीर्तितम् ।
प्रातः स्नात्वा पठेन्नित्यममृतत्वं स गच्छति ॥ ३८ ॥

ध्यायन्ति ये नित्यमनन्तमच्युतं
हृत्पद्ममध्येष्वथ कीर्तयन्ति ये ।
उपासकानां प्रभुमीश्वरं परं
ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ ३९ ॥

इति श्रीनरसिंहपुराणे षोडशोऽध्याये श्री विष्णोः स्तवराजः ॥


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments