Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं सुवर्चलायै नमः ।
ओं आञ्जनेय सत्यै नमः ।
ओं लक्ष्म्यै नमः ।
ओं सूर्यपुत्र्यै नमः ।
ओं निष्कलङ्कायै नमः ।
ओं शक्त्यै नमः ।
ओं नित्यायै नमः ।
ओं निर्मलायै नमः ।
ओं स्थिरायै नमः । ९
ओं सरस्वत्यै नमः ।
ओं निरञ्जनायै नमः ।
ओं शाश्वतायै नमः ।
ओं निर्मलहृदयायै नमः ।
ओं सकलहृदयायै नमः ।
ओं सकलविद्याप्रदायिन्यै नमः ।
ओं अमृतप्रदायिन्यै नमः ।
ओं किष्किन्धापुरवासिन्यै नमः ।
ओं आञ्जनेय वक्षस्थलवासिन्यै नमः । १८
ओं सकलमनोरथवाञ्छितपूरण्यै नमः ।
ओं अञ्जनाप्रियायै नमः ।
ओं पतिसेवानिरन्तरायै नमः ।
ओं रत्नकिरीटायै नमः ।
ओं जरामरणवर्जितायै नमः ।
ओं कामदायै नमः ।
ओं सर्वशक्तिमुक्तिफलदायै नमः ।
ओं भक्ताभीष्टदायै नमः ।
ओं सकलविद्याप्रवीणायै नमः । २७
ओं महानन्दायै नमः ।
ओं संसारभयनाशिन्यै नमः ।
ओं परमकलायै नमः ।
ओं नित्यकल्याण्यै नमः ।
ओं श्वेतवाहनपुत्रिकायै नमः ।
ओं धनधान्य अक्षयायै नमः ।
ओं वंशवृद्धिकरायै नमः ।
ओं दिव्यपीताम्बरधरायै नमः ।
ओं मृत्युभयनाशिन्यै नमः । ३६
ओं नित्यानन्दायै नमः ।
ओं छायापुत्रिकायै नमः ।
ओं कनकसुवर्चलायै नमः ।
ओं श्रीरामभक्ताग्रगण्यायै नमः ।
ओं निर्मलहृदयायै नमः ।
ओं सर्वकार्यसाधनायै नमः ।
ओं पतिसेवाधुरन्धरायै नमः ।
ओं त्रैलोक्यसुन्दर्यै नमः ।
ओं वंशवृद्धिकरायै नमः । ४५
ओं सकलपापहरायै नमः ।
ओं कामरूपिण्यै नमः ।
ओं वंशोद्धारिकायै नमः ।
ओं शङ्खचक्रहस्तायै नमः ।
ओं पद्मशोभितायै नमः ।
ओं पद्मगर्भायै नमः ।
ओं सर्वदुष्टग्रहनाशिन्यै नमः ।
ओं आनन्दायै नमः ।
ओं विचित्ररत्नमकुटायै नमः । ५४
ओं आदित्यवर्णायै नमः ।
ओं दुःस्वप्नदोषहरायै नमः ।
ओं कलातीतायै नमः ।
ओं शोकनाशिन्यै नमः ।
ओं पुत्रपौत्रदायिकायै नमः ।
ओं सङ्कल्पसिद्धिदायै नमः ।
ओं महाज्वालायै नमः ।
ओं धर्मार्थमोक्षदायिन्यै नमः ।
ओं निर्मलहृदयायै नमः । ६३
ओं सर्वभूतवशीकरायै नमः ।
ओं नित्यायै नमः ।
ओं धर्माधर्मपरिपालनायै नमः ।
ओं वायुनन्दनसत्यै नमः ।
ओं महाबलशालिन्यै नमः ।
ओं सत्यसन्धायै नमः ।
ओं सत्यव्रतायै नमः ।
ओं विज्ञानस्वरूपिण्यै नमः ।
ओं ललितायै नमः । ७२
ओं शान्तिदायिन्यै नमः ।
ओं शान्तस्वरूपिण्यै नमः ।
ओं लक्ष्मीशक्तिवरदायै नमः ।
ओं अकालमृत्युहरायै नमः ।
ओं सत्यदेवतायै नमः ।
ओं ऐश्वर्यप्रदायै नमः ।
ओं हेमभूषणभूषितायै नमः ।
ओं सकलमनोवाञ्छितायै नमः ।
ओं कनकवर्णायै नमः । ८१
ओं धर्मपरिवर्तनायै नमः ।
ओं मोक्षप्रदायिन्यै नमः ।
ओं कामरूपिण्यै नमः ।
ओं धर्मशीलायै नमः ।
ओं गानविशारदायै नमः ।
ओं वीणावादनसंसेवितायै नमः ।
ओं वंशोद्धारकायै नमः ।
ओं आञ्जनेयप्रियायै नमः ।
ओं विशालनेत्रायै नमः । ९०
ओं वज्रविग्रहायै नमः ।
ओं विशालवक्षस्थलायै नमः ।
ओं धर्मपरिपालनायै नमः ।
ओं प्रत्यक्षदेवतायै नमः ।
ओं जनानन्दकरायै नमः ।
ओं संसारार्णवतारिण्यै नमः ।
ओं हंसतूलिकाशयनायै नमः ।
ओं गन्धमादनवासिन्यै नमः ।
ओं नित्यायै नमः । ९९
ओं ब्रह्मचारिण्यै नमः ।
ओं भूतान्तरात्मने नमः ।
ओं कामरूपिण्यै नमः ।
ओं कामचारिण्यै नमः ।
ओं सर्वकार्यसाधनायै नमः ।
ओं रामभक्तायै नमः ।
ओं शक्तिरूपिण्यै नमः ।
ओं भुक्तिमुक्तिफलदायै नमः ।
ओं रामपादसेवाधुरन्धरायै नमः । १०८
इति श्री सुवर्चला अष्टोत्तरशतनामावली ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.