Site icon Stotra Nidhi

Sri Panchamukha Hanuman Hrudayam – श्री पञ्चमुख हनुमत् हृदयम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य भगवान् श्रीरामचन्द्र ऋषिः अनुष्टुप् छन्दः श्रीपञ्चवक्त्रहनुमान् देवता ओं बीजं रुद्रमूर्तये इति शक्तिः स्वाहा कीलकं श्रीपञ्चवक्त्रहनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
ओं ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ओं ह्रूं वायुपुत्राय मध्यमाभ्यां नमः ।
ओं ह्रैं अग्निगर्भाय अनामिकाभ्यां नमः ।
ओं ह्रौं रामदूताय कनिष्ठिकाभ्यां नमः ।
ओं ह्रः पञ्चवक्त्रहनुमते करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्रां अञ्जनासुताय हृदयाय नमः ।
ओं ह्रीं रुद्रमूर्तये शिरसे स्वाहा ।
ओं ह्रूं वायुपुत्राय शिखायै वषट् ।
ओं ह्रैं अग्निगर्भाय कवचाय हुम् ।
ओं ह्रौं रामदूताय नेत्रत्रयाय वौषट् ।
ओं ह्रः पञ्चवक्त्रहनुमते अस्त्राय फट् ।
ओं भूर्भुवः स्वरोमिति दिग्बन्धः ॥

ध्यानम् –
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥

हृदय स्तोत्रम् –
ओं नमो वायुपुत्राय पञ्चवक्त्राय ते नमः ।
नमोऽस्तु दीर्घबालाय राक्षसान्तकराय च ॥ १ ॥

वज्रदेह नमस्तुभ्यं शताननमदापह ।
सीतासन्तोषकरण नमो राघवकिङ्कर ॥ २ ॥

सृष्टिप्रवर्तक नमो महास्थित नमो नमः ।
कलाकाष्ठस्वरूपाय माससंवत्सरात्मक ॥ ३ ॥

नमस्ते ब्रह्मरूपाय शिवरूपाय ते नमः ।
नमो विष्णुस्वरूपाय सूर्यरूपाय ते नमः ॥ ४ ॥

नमो वह्निस्वरूपाय नमो गगनचारिणे ।
सर्वरम्भावनचर अशोकवननाशक ॥ ५ ॥

नमो कैलासनिलय मलयाचल संश्रय ।
नमो रावणनाशाय इन्द्रजिद्वधकारिणे ॥ ६ ॥

महादेवात्मक नमो नमो वायुतनूद्भव ।
नमः सुग्रीवसचिव सीतासन्तोषकारण ॥ ७ ॥

समुद्रोल्लङ्घन नमो सौमित्रेः प्राणदायक ।
महावीर नमस्तुभ्यं दीर्घबाहो नमो नमः ॥ ८ ॥

दीर्घबाल नमस्तुभ्यं वज्रदेह नमो नमः ।
छायाग्रहहर नमो वरसौम्यमुखेक्षण ॥ ९ ॥

सर्वदेवसुसंसेव्य मुनिसङ्घनमस्कृत ।
अर्जुनध्वजसंवास कृष्णार्जुनसुपूजित ॥ १० ॥

धर्मार्थकाममोक्षाख्य पुरुषार्थप्रवर्तक ।
ब्रह्मास्त्रबन्द्य भगवन् आहतासुरनायक ॥ ११ ॥

भक्तकल्पमहाभुज भूतभेतालनाशक ।
दुष्टग्रहहरानन्त वासुदेव नमोऽस्तु ते ॥ १२ ॥

श्रीरामकार्ये चतुर पार्वतीगर्भसम्भव ।
नमः पम्पावनचर ऋष्यमूककृतालय ॥ १३ ॥

धान्यमालीशापहर कालनेमिनिबर्हण ।
सुवर्चलाप्राणनाथ रामचन्द्रपरायण ॥ १४ ॥

नमो वर्गस्वरूपाय वर्णनीयगुणोदय ।
वरिष्ठाय नमस्तुभ्यं वेदरूप नमो नमः ॥ १५ ॥

नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमाम्यहम् ।
इति ते कथितं देवि हृदयं श्रीहनूमतः ॥ १६ ॥

सर्वसम्पत्करं पुण्यं सर्वसौख्यविवर्धनम् ।
दुष्टभूतग्रहहरं क्षयापस्मारनाशनम् ॥ १७ ॥

यस्त्वात्मनियमो भक्त्या वायुसूनोः सुमङ्गलम् ।
हृदयं पठते नित्यं स ब्रह्मसदृशो भवेत् ॥ १८ ॥

अजप्तं हृदयं यो यः मन्त्रं जपति मानवः ।
स दुःखं शीघ्रमाप्नोति मन्त्रसिद्धिर्न जायते ॥ १९ ॥

सत्यं सत्यं पुनः सत्यं मन्त्रसिद्धिकरं परम् ।
इत्थं च कथितं पूर्वं साम्बेन स्वप्रियां प्रति ॥ २० ॥

महर्षेर्गौतमात् पूर्वं मया प्राप्तमिदं मुने ।
तन्मया प्रहितं सर्वं शिष्यवात्सल्यकारणात् ॥ २१ ॥

इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेयसंवादे श्री पञ्चमुख हनुमत् हृदय स्तोत्रम् ॥

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments