Site icon Stotra Nidhi

Sri Dakshinamurthy Mantrarna Ashtottara Shatanama Stotram – श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनाम स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीदेव्युवाच ।
भगवन् देवदेवेश मन्त्रार्णस्तवमुत्तमम् ।
दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥ १ ॥

श्रीमहादेव उवाच ।
साधु पृष्टं महादेवि सर्वलोकहिताय ते ।
वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥ २ ॥

ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् ।
मूलमन्त्रपदस्यापि द्रष्टव्यं सकलं हि तत् ॥ ३ ॥

ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ४ ॥

इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् ।
जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितः ॥ ५ ॥

स्तोत्रम् –
ओम् । ओङ्काराचलसिंहेन्द्रः ओङ्कारोद्यानकोकिलः ।
ओङ्कारनीडशुकराडोङ्कारारण्यकुञ्जरः ॥ ६ ॥

नगराजसुताजानिर्नगराजनिजालयः ।
नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥ ७ ॥

नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः ।
मोहानलसुधाधारो मोहाम्बुजसुधाकरः ॥ ८ ॥

मोहान्धकारतरणिर्मोहोत्पलनभोमणिः ।
भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥ ९ ॥

भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः ।
भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥ १० ॥

गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः ।
गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥ ११ ॥

गगनाम्बरसंवीतो गगनामुक्तमूर्धजः ।
वदनाब्जजितश्रीश्च वदनेन्दुस्फुरद्दिशः ॥ १२ ॥

वरदानैकनिपुणो वरवीणोज्ज्वलत्करः ।
वनवाससमुल्लासी वनलीलैकलोलुपः ॥ १३ ॥

तेजःपुञ्जघनाकारो तेजसामविभासकः ।
तेजःप्रदो विधेयानां तेजोमयनिजाश्रमः ॥ १४ ॥

दमितानङ्गसङ्ग्रामो दरहासोज्ज्वलन्मुखः ।
दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥ १५ ॥

क्षीरेन्दुस्फटिकाकारः क्षितीन्द्रमकुटोज्ज्वलः ।
क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥ १६ ॥

नानाभरणमुक्ताङ्गो नारीसम्मोहनाकृतिः ।
नादब्रह्मरसास्वादी नागभूषणभूषितः ॥ १७ ॥

मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः ।
मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥ १८ ॥

तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः ।
तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥ १९ ॥

तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः ।
यमसन्नुतसत्कीर्तिः यमसम्यमसम्युतः ॥ २० ॥

यतिरूपधरो मौनमुनीन्द्रोपास्यविग्रहः ।
मन्दारहाररुचिरो मदनायुतसुन्दरः ॥ २१ ॥

मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः ।
मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥ २२ ॥

हस्ताङ्कुरितचिन्मुद्रो हंसयोगपटूत्तमः ।
हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥ २३ ॥

मेरुशृङ्गसमुल्लासी मेघश्याममनोहरः ।
मेघाङ्कुरालवालाग्र्यो मेधापक्वफलद्रुमः ॥ २४ ॥

धार्मिकान्तकृतावासो धर्ममार्गप्रवर्तकः ।
धामत्रयनिजारामो धरोत्तममहारथः ॥ २५ ॥

प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः ।
प्रज्ञाचन्द्रशिलाचन्द्रः प्रज्ञामणिलसत्करः ॥ २६ ॥

ज्ञानिहृद्भासमानात्मा ज्ञातॄणामविदूरगः ।
ज्ञानायादृतदिव्याङ्गो ज्ञातिजातिकुलातिगः ॥ २७ ॥

प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिबाडबः ।
प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥ २८ ॥

यमिसत्तमसंसेव्यो यक्षगेयात्मवैभवः ।
यज्ञाधिदेवतामूर्तिः यजमानवपुर्धरः ॥ २९ ॥

छत्राधिपदिगीशश्च छत्रचामरसेवितः ।
छन्दः शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥ ३० ॥

स्वाभाविकसुखैकात्मा स्वानुभूतिरसोदधिः ।
स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥ ३१ ॥

हाटकाभजटाजूटो हासोदस्तारिमण्डलः ।
हालाहलोज्ज्वलगलो हारायितभुजङ्गमः ॥ ३२ ॥

इति श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments