Site icon Stotra Nidhi

Sri Dadhi Vamana Stotram – श्री दधिवामन स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।
पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥ १ ॥

पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।
ज्वलत्कालानलप्रख्यं तडित्कोटिसमप्रभम् ॥ २ ॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
चन्द्रमण्डलमध्यस्थं विष्णुमच्युतमव्ययम् ॥ ३ ॥

श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।
पीताम्बरमुदाराङ्गं वनमालाविभूषितम् ॥ ४ ॥

सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।
षोडशस्त्रीपरिवृतमप्सरोगणसेवितम् ॥ ५ ॥

ऋग्यजुः सामाथर्वाद्यैर्गीयमानं जनार्दनम् ।
चतुर्मुखाद्यैर्देवेशैः स्तोत्राराधनतत्परैः ॥ ६ ॥

सनकाद्यैर्मुनिगणैः स्तूयमानमहर्निशम् ।
त्रियम्बको महादेवो नृत्यते यस्य सन्निधौ ॥ ७ ॥

दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे ।
करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥ ८ ॥

साधकानां प्रयच्छन्तमन्नपानमनुत्तमम् ।
ब्राह्मे मुहूर्ते चोत्थाय ध्यायेद्देवमधोक्षजम् ॥ ९ ॥

अतिसुविमलगात्रं रुक्मपात्रस्थमन्नं
सुललितदधिखण्डं पाणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखाद्वामनं भावयेद्यः ॥ १० ॥

क्षीरमन्नमन्नदाता लभेदन्नाद एव च ।
पुरस्तादन्नमाप्नोति पुनरावर्तिवर्जितम् ।
आयुरारोग्यमैश्वर्यं लभते चान्नसम्पदः ॥ ११ ॥

इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ।
अक्लेशादन्नसिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च ॥ १२ ॥

अभ्रश्यामः शुभ्रयज्ञोपवीती
सत्कौपीनः पीतकृष्णाजिनश्रीः
छत्री दण्डी पुण्डरीकायताक्षः
पायाद्देवो वामनो ब्रह्मचारी ॥ १३ ॥

अजिनदण्डकमण्डलुमेखला-
-रुचिरपावनवामनमूर्तये ।
मितजगत्त्रितयाय जितारये
निगमवाक्पटवे वटवे नमः ॥ १४ ॥

श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ।
नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ॥ १५ ॥

वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ।
वामनस्तारकोभाभ्यां वामनाय नमो नमः ॥ १६ ॥

इति श्रीवामनपुराणे श्री दधिवामन स्तोत्रम् ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments