Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(अथ पौराणिकैः श्लोकै राष्ट्रै द्वादशाभिः शुभैः ।
प्रणमेद्दण्डवद्भानुं साष्टाङ्गं भक्तिसम्युतः ॥ )
हंसाय भुवनध्वान्तध्वंसायाऽमिततेजसे ।
हंसवाहनरूपाय भास्कराय नमो नमः ॥ १ ॥
वेदाङ्गाय पतङ्गाय विहङ्गारूढगामिने ।
हरिद्वर्णतुरङ्गाय भास्कराय नमो नमः ॥ २ ॥
भुवनत्रयदीप्ताय भुक्तिमुक्तिप्रदाय च ।
भक्तदारिद्र्यनाशाय भास्कराय नमो नमः ॥ ३ ॥
लोकालोकप्रकाशाय सर्वलोकैकचक्षुषे ।
लोकोत्तरचरित्राय भास्कराय नमो नमः ॥ ४ ॥
सप्तलोकप्रकाशाय सप्तसप्तिरथाय च ।
सप्तद्वीपप्रकाशाय भास्कराय नमो नमः ॥ ५ ॥
मार्ताण्डाय द्युमणये भानवे चित्रभानवे ।
प्रभाकराय मित्राय भास्कराय नमो नमः ॥ ६ ॥
नमस्ते कमलानाथ नमस्ते कमलप्रिय ।
नमः कमलहस्ताय भास्कराय नमो नमः ॥ ७ ॥
नमस्ते ब्रह्मरूपाय नमस्ते विष्णुरूपिणे ।
नमस्ते रुद्ररूपाय भास्कराय नमो नमः ॥ ८ ॥
सत्यज्ञानस्वरूपाय सहस्रकिरणाय च ।
गीर्वाणभीतिनाशाय भास्कराय नमो नमः ॥ ९ ॥
सर्वदुःखोपशान्ताय सर्वपापहराय च ।
सर्वव्याधिविनाशाय भास्कराय नमो नमः ॥ १० ॥
सहस्रपत्रनेत्राय सहस्राक्षस्तुताय च ।
सहस्रनामधेयाय भास्कराय नमो नमः ॥ ११ ॥
नित्याय निरवद्याय निर्मलज्ञानमूर्तये ।
निगमार्थप्रकाशाय भास्कराय नमो नमः ॥ १२ ॥
आदिमध्यान्तशून्याय वेदवेदान्तवेदिने ।
नादबिन्दुस्वरूपाय भास्कराय नमो नमः ॥ १३ ॥
निर्मलज्ञानरूपाय रम्यतेजः स्वरूपिणे ।
ब्रह्मतेजः स्वरूपाय भास्कराय नमो नमः ॥ १४ ॥
नित्यज्ञानाय नित्याय निर्मलज्ञानमूर्तये ।
निगमार्थस्वरूपाय भास्कराय नमो नमः ॥ १५ ॥
कुष्ठव्याधिविनाशाय दुष्टव्याधिहराय च ।
इष्टार्थदायिने तस्मै भास्कराय नमो नमः ॥ १६ ॥
भवरोगैकवैद्याय सर्वरोगापहारिणे ।
एकनेत्रस्वरूपाय भास्कराय नमो नमः ॥ १७ ॥
दारिद्र्यदोषनाशाय घोरपापहराय च ।
दुष्टशिक्षणधुर्याय भास्कराय नमो नमः ॥ १८ ॥
होमानुष्ठानरूपेण कालमृत्युहराय च ।
हिरण्यवर्णदेहाय भास्कराय नमो नमः ॥ १९ ॥
सर्वसम्पत्प्रदात्रे च सर्वदुःखविनाशिने ।
सर्वोपद्रवनाशाय भास्कराय नमो नमः ॥ २० ॥
नमो धर्मनिधानाय नमः सुकृतसाक्षिणे ।
नमः प्रत्यक्षरूपाय भास्कराय नमो नमः ॥ २१ ॥
सर्वलोकैकपूर्णाय कालकर्माघहारिणे ।
नमः पुण्यस्वरूपाय भास्कराय नमो नमः ॥ २२ ॥
द्वन्द्वव्याधिविनाशाय सर्वदुःखविनाशिने ।
नमस्तापत्रयघ्नाय भास्कराय नमो नमः ॥ २३ ॥
कालरूपाय कल्याणमूर्तये कारणाय च ।
अविद्याभयसंहर्त्रे भास्कराय नमो नमः ॥ २४ ॥
इति भास्कर स्तोत्रम् ॥
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.