Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बालार्ककोटिरुचिरां कोटिब्रह्माण्डभूषिताम् ।
कन्दर्पकोटिलावण्यां बालां वन्दे शिवप्रियाम् ॥ १ ॥
वह्निकोटिप्रभां सूक्ष्मां कोटिकोटिसहेलिनीम् ।
वरदां रक्तवर्णां च बालां वन्दे सनातनीम् ॥ २ ॥
ज्ञानरत्नाकरां भीमां परब्रह्मावतारिणीम् ।
पञ्चप्रेतासनगतां बालां वन्दे गुहाशयाम् ॥ ३ ॥
पराप्रासादमूर्ध्निस्थां पवित्रां पात्रधारिणीम् ।
पशुपाशच्छिदां तीक्ष्णां बालां वन्दे शिवासनाम् ॥ ४ ॥
गिरिजां गिरिमध्यस्थां गीः रूपां ज्ञानदायिनीम् ।
गुह्यतत्त्वपरां चाद्यां बालां वन्दे पुरातनीम् ॥ ५ ॥
बौद्धकोटिसुसौन्दर्यां चन्द्रकोटिसुशीतलाम् ।
आशावासां परां देवीं वन्दे बालां कपर्दिनीम् ॥ ६ ॥
सृष्टिस्थित्यन्तकारिणीं त्रिगुणात्मकरूपिणीम् ।
कालग्रसनसामर्थ्यां बालां वन्दे फलप्रदाम् ॥ ७ ॥
यज्ञनाशीं यज्ञदेहां यज्ञकर्मशुभप्रदाम् ।
जीवात्मविश्वजननीं बालां वन्दे परात्पराम् ॥ ८ ॥
इत्येतत्परमं गुह्यं नाम्ना मुक्तावलीस्तवम् ।
ये पठन्ति महेशानि फलं वक्तुं न शक्यते ॥ ९ ॥
गुह्याद्गुह्यतरं गुह्यं महागुह्यं वरानने ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १० ॥
कन्यार्थी लभते कन्यां मोक्षार्थी मोक्षमाप्नुयात् ।
बहुनात्र किमुक्तेन चिन्तामणिरिवापरम् ॥ ११ ॥
गोपनीयं प्रयत्नेन गोपनीयं न संशयः ।
अन्येभ्यो नैव दातव्यं किमन्यच्छ्रोतुमिच्छसि ॥ १२ ॥
इति श्रीविष्णुयामले श्री बाला मुक्तावली स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.