Site icon Stotra Nidhi

Sri Bagalamukhi Sahasranama Stotram – श्री बगलामुखी सहस्रनाम स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

सुरालयप्रधाने तु देवदेवं महेश्वरम् ।
शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १ ॥

श्रीदेव्युवाच ।
परमेष्ठिन् परं धाम प्रधान परमेश्वर ।
नाम्नां सहस्रं बगलामुख्याश्च ब्रूहि वल्लभ ॥ २ ॥

ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि नामधेयं सहस्रकम् ।
परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३ ॥

गुह्याद्गुह्यतरं देवि सर्वसिद्धैकवन्दितम् ।
अतिगुप्ततरा विद्या सर्वतन्त्रेषु गोपिता ॥ ४ ॥

विशेषतः कलियुगे महासिद्ध्यौघदायिनी ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५ ॥

अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते ।
रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥ ६ ॥

स्तम्भिनी राजसैन्यानां वादिनी परवादिनाम् ।
पुरा चैकार्णवे घोरे काले परमभैरवः ॥ ७ ॥

सुन्दरीसहितो देवः केशवः क्लेशनाशनः ।
उरगासनमासीनो योगनिद्रामुपागमत् ॥ ८ ॥

निद्राकाले च ते काले मया प्रोक्तं सनातनः ।
महास्तम्भकरं देवि स्तोत्रं वा शतनामकम् ॥ ९ ॥

सहस्रनाम परमं वद देवस्य कस्यचित् ।
श्रीभगवानुवाच ।
शृणु शङ्कर देवेश परमातिरहस्यकम् ॥ १० ॥

अतोऽहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः ।
गोपनीयं प्रयत्नेन प्रकाशात् सिद्धिहानिकृत् ॥ ११ ॥

विनियोगः –
अस्य श्रीपीताम्बरी बगलामुखी सहस्रनामस्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः अनुष्टुप् छन्दः श्रीजगद्वश्यकरी पीताम्बरी बगलामुखी देवता सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् –
पीताम्बरपरीधानां पीनोन्नतपयोधराम् ।
जटामुकुटशोभाढ्यां पीतभूमिसुखासनाम् ॥ १२ ॥

शत्रोर्जिह्वां मुद्गरं च बिभ्रतीं परमां कलाम् ।
सर्वागमपुराणेषु विख्यातां भुवनत्रये ॥ १३ ॥

सृष्टिस्थितिविनाशानामादिभूतां महेश्वरीम् ।
गोप्या सर्वप्रयत्नेन शृणु तां कथयामि ते ॥ १४ ॥

जगद्विध्वंसिनीं देवीमजराऽमरकारिणीम् ।
तां नमामि महामायां महदैश्वर्यदायिनीम् ॥ १५ ॥

मूलमन्त्रव्याख्य –
प्रणवं पूर्वमुद्धृत्य स्थिरमायां ततो वदेत् ।
बगलामुखी सर्वेति दुष्टानां वाचमेव च ॥ १६ ॥

मुखं पदं स्तम्भयेति जिह्वां कीलय बुद्धिमत् ।
विनाशयेति तारं च स्थिरमायां ततो वदेत् ॥ १७ ॥

वह्निप्रियां ततो मन्त्रश्चतुर्वर्गफलप्रदः ।
स्तोत्रम् –
ब्रह्मास्त्रं ब्रह्मविद्या च ब्रह्ममाता सनातनी ॥ १८ ॥

ब्रह्मेशी ब्रह्मकैवल्यं बगला ब्रह्मचारिणी ।
नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ॥ १९ ॥

सन्धारिणी महामाया कटाक्षक्षेमकारिणी ।
कमला विमला नीलरत्नकान्तिगुणाश्रिता ॥ २० ॥

कामप्रिया कामरता कामकामस्वरूपिणी ।
मङ्गला विजया जाया सर्वमङ्गलकारिणी ॥ २१ ॥

कामिनी कामिनीकाम्या कामुका कामचारिणी ।
कामप्रिया कामरता कामाकामस्वरूपिणी ॥ २२ ॥

कामाख्या कामबीजस्था कामपीठनिवासिनी ।
कामदा कामहा काली कपाली च करालिका ॥ २३ ॥

कंसारिः कमला कामा कैलासेश्वरवल्लभा ।
कात्यायनी केशवा च करुणा कामकेलिभुक् ॥ २४ ॥

क्रिया कीर्तिः कृत्तिका च काशिका मथुरा शिवा ।
कालाक्षी कालिका काली धवलाननसुन्दरी ॥ २५ ॥

खेचरी च खमूर्तिश्च क्षुद्राऽक्षुद्रक्षुधावरा ।
खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया ॥ २६ ॥

गङ्गा गौरी गामिनी च गीता गोत्रविवर्धिनी ।
गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ॥ २७ ॥

गन्धर्वा गन्धर्वकला गोपनी गरुडासना ।
गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ॥ २८ ॥

गौराङ्गी गोपिकामूर्तिर्गोपीगोष्ठनिवासिनी ।
गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा ॥ २९ ॥

घोरघोरा घोररूपा घनश्रोणी घनप्रभा ।
दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्वना ॥ ३० ॥

डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना ।
उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ॥ ३१ ॥

चामुण्डा मुण्डिका चण्डी चण्डदर्पहरेति च ।
उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥ ३२ ॥

चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी ।
चतुर्भुजा प्रचण्डा च चराचरनिवासिनी ॥ ३३ ॥

क्षत्रप्रायः शिरोवाहा छलाछलतरा छली ।
क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ॥ ३४ ॥

जया च जयदुर्गा च जयन्ती जयदा परा ।
जायिनी जयिनी ज्योत्स्नाजटाधरप्रियाऽजिता ॥ ३५ ॥

जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी ।
जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ॥ ३६ ॥

झङ्कारा झञ्झरीझण्टा झङ्कारीझकशोभिनी ।
झखाझमेशा झङ्कारीयोनिकल्याणदायिनी ॥ ३७ ॥

झर्झरा झमुरीझारा झराझरतरा परा ।
झञ्झाझमेता झङ्कारीझणाकल्याणदायिनी ॥ ३८ ॥

ङमनामानसीचिन्त्या ङमुनाशङ्करप्रिया ।
टङ्कारीटिटिका टीकाटङ्किनी च टवर्गगा ॥ ३९ ॥

टापाटोपा टटपतिष्टमनी टमनप्रिया ।
ठकारधारिणी ठीकाठङ्करी ठिकरप्रिया ॥ ४० ॥

ठेकठासा ठकरतीठामिनी ठमनप्रिया ।
डारहा डाकिनी डाराडामरा डामरप्रिया ॥ ४१ ॥

डखिनीडडयुक्ता च डमरूकरवल्लभा ।
ढक्काढक्कीढक्कनादा ढोलशब्दप्रबोधिनी ॥ ४२ ॥

ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी ।
अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी ॥ ४३ ॥

आमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता ।
तारातन्त्रवती तन्त्रतत्त्वरूपा तपस्विनी ॥ ४४ ॥

तरङ्गिणी तत्त्वपरा तन्त्रिका तन्त्रविग्रहा ।
तपोरूपा तत्त्वदात्री तपःप्रीतिप्रधर्षिणी ॥ ४५ ॥

तन्त्रयन्त्रार्चनपरा तलातलनिवासिनी ।
तल्पदा त्वल्पदा कामास्थिरा स्थिरतरा स्थितिः ॥ ४६ ॥

स्थाणुप्रिया स्थितिपरा स्थितास्थानप्रदायिनी ।
दिगम्बरा दयारूपा दावाग्निदमनी दमा ॥ ४७ ॥

दुर्गा दुर्गपरादेवी दुष्टदैत्यविनाशिनी ।
दमनप्रमदा दैत्यदयादानपरायणा ॥ ४८ ॥

दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता ।
दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥ ४९ ॥

दमनाशनसौन्दर्या दानवेन्द्रविनाशिनी ।
दयाधरा च दमनी दर्भपत्रविलासिनी ॥ ५० ॥

धरणीधारिणी धात्री धराधरधरप्रिया ।
धराधरसुता देवी सुधर्मा धर्मचारिणी ॥ ५१ ॥

धर्मज्ञा धवला धूला धनदा धनवर्धिनी ।
धीराऽधीरा धीरतरा धीरसिद्धिप्रदायिनी ॥ ५२ ॥

धन्वन्तरिधराधीरा ध्येयध्यानस्वरूपिणी ।
नारायणी नारसिंही नित्यानन्दा नरोत्तमा ॥ ५३ ॥

नक्ताऽनक्तवती नित्या नीलजीमूतसन्निभा ।
नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥ ५४ ॥

सुनीलपुष्पखचिता नीलजम्बूसमप्रभा ।
नित्याख्या षोडशी विद्या नित्याऽनित्यसुखावहा ॥ ५५ ॥

नर्मदा नन्दनानन्दा नन्दानन्दविवर्धिनी ।
यशोदानन्दतनया नन्दनोद्यानवासिनी ॥ ५६ ॥

नागान्तका नागवृद्धा नागपत्नी च नागिनी ।
नमिताशेषजनता नमस्कारवती नमः ॥ ५७ ॥

पीताम्बरा पार्वती च पीताम्बरविभूषिता ।
पीतमाल्याम्बरधरा पीताभा पिङ्गमूर्धजा ॥ ५८ ॥

पीतपुष्पार्चनरता पीतपुष्पसमर्चिता ।
परप्रभा पितृपतिः परसैन्यविनाशिनी ॥ ५९ ॥

परमा परतन्त्रा च परमन्त्रा परात्परा ।
पराविद्या परासिद्धिः परास्थानप्रदायिनी ॥ ६० ॥

पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता ।
पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥ ६१ ॥

पीतानितम्बिनी पीता पीनोन्नतपयस्तनी ।
प्रेमाप्रमध्यमाशेषा पद्मपत्रविलासिनी ॥ ६२ ॥

पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा ।
पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥ ६३ ॥

पावनी पालिका पात्री परदा वरदा शिवा ।
प्रेतसंस्था परानन्दा परब्रह्मस्वरूपिणी ॥ ६४ ॥

जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया ।
पशुमांसप्रियाऽपर्णा परामृतपरायणा ॥ ६५ ॥

पाशिनी पाशिका चापि पशुघ्नी पशुभाषिणी ।
फुल्लारविन्दवदनी फुल्लोत्पलशरीरिणी ॥ ६६ ॥

परानन्दप्रदा वीणा पशुपाशविनाशिनी ।
फूत्कारा फूत्परा फेणी फुल्लेन्दीवरलोचना ॥ ६७ ॥

फट्मन्त्रा स्फटिका स्वाहा स्फोटा च फट्स्वरूपिणी ।
स्फाटिकाघुटिका घोरा स्फटिकाद्रिस्वरूपिणी ॥ ६८ ॥

वराङ्गना वरधरा वाराही वासुकी वरा ।
बिन्दुस्था बिन्दुनीवाणी बिन्दुचक्रनिवासिनी ॥ ६९ ॥

विद्याधरी विशालाक्षी काशीवासिजनप्रिया ।
वेदविद्या विरूपाक्षी विश्वयुग्बहुरूपिणी ॥ ७० ॥

ब्रह्मशक्तिर्विष्णुशक्तिः पञ्चवक्त्रा शिवप्रिया ।
वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥ ७१ ॥

ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी ।
भवप्रिया भवोद्भवा भवरूपा भवोत्तमा ॥ ७२ ॥

भवपारा भवाधारा भाग्यवत्प्रियकारिणी ।
भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥ ७३ ॥

भवानी भैरवी भीमा भद्रकाली सुभद्रिका ।
भगिनी भगरूपा च भगमाना भगोत्तमा ॥ ७४ ॥

भगप्रिया भगवती भगवासा भगाकरा ।
भगसृष्टा भाग्यवती भगरूपा भगासिनी ॥ ७५ ॥

भगलिङ्गप्रिया देवी भगलिङ्गपरायणा ।
भगलिङ्गस्वरूपा च भगलिङ्गविनोदिनी ॥ ७६ ॥

भगलिङ्गरता देवी भगलिङ्गनिवासिनी ।
भगमाला भगकला भगाधारा भगाम्बरा ॥ ७७ ॥

भगवेगा भगाभूषा भगेन्द्रा भाग्यरूपिणी ।
भगलिङ्गाङ्गसम्भोगा भगलिङ्गासवावहा ॥ ७८ ॥

भगलिङ्गसमाधुर्या भगलिङ्गनिवेशिता ।
भगलिङ्गसुपूजा च भगलिङ्गसमन्विता ॥ ७९ ॥

भगलिङ्गविरक्ता च भगलिङ्गसमावृता ।
माधवी माधवीमान्या मधुरा मधुमानिनी ॥ ८० ॥

मन्दहासा महामाया मोहिनी महदुत्तमा ।
महामोहा महाविद्या महाघोरा महास्मृतिः ॥ ८१ ॥

मनस्विनी मानवती मोदिनी मधुरानना ।
मेनका मानिनी मान्या मणिरत्नविभूषणा ॥ ८२ ॥

मल्लिकामौलिकामाला मालाधरमदोत्तमा ।
मदनासुन्दरी मेधा मधुमत्ता मधुप्रिया ॥ ८३ ॥

मत्तहंसासमोन्नासा मत्तसिंहमहासनी ।
महेन्द्रवल्लभा भीमा मौल्यं च मिथुनात्मजा ॥ ८४ ॥

महाकाल्या महाकाली महाबुद्धिर्महोत्कटा ।
माहेश्वरी महामाया महिषासुरघातिनी ॥ ८५ ॥

मधुराकीर्तिमत्ता च मत्तमातङ्गगामिनी ।
मदप्रिया मांसरता मत्तयुक्कामकारिणी ॥ ८६ ॥

मैथुन्यवल्लभा देवी महानन्दा महोत्सवा ।
मरीचिर्मारतिर्माया मनोबुद्धिप्रदायिनी ॥ ८७ ॥

मोहा मोक्षा महालक्ष्मीर्महत्पदप्रदायिनी ।
यमरूपा च यमुना जयन्ती च जयप्रदा ॥ ८८ ॥

याम्या यमवती युद्धा यदोः कुलविवर्धिनी ।
रमा रामा रामपत्नी रत्नमालारतिप्रिया ॥ ८९ ॥

रत्नसिंहासनस्था च रत्नाभरणमण्डिता ।
रमणी रमणीया च रत्यारसपरायणा ॥ ९० ॥

रतानन्दा रतवती रघूणां कुलवर्धिनी ।
रमणारिपरिभ्राज्या रैधा राधिकरत्नजा ॥ ९१ ॥

रावीरसस्वरूपा च रात्रिराजसुखावहा ।
ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ॥ ९२ ॥

रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका ।
लक्ष्मीर्लज्जा लतिका च लीलालग्नानिताक्षिणी ॥ ९३ ॥

लीला लीलावती लोमहर्षाह्लादनपट्‍टिका ।
ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ॥ ९४ ॥

ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी ।
वेदाङ्गना वेदरूपा वनिता विनतावसा ॥ ९५ ॥

बाला च युवती वृद्धा ब्रह्मकर्मपरायणा ।
विन्ध्यस्था विन्ध्यवासी च बिन्दुयुग्बिन्दुभूषणा ॥ ९६ ॥

विद्यावती वेदधारी व्यापिका बर्हिणीकला ।
वामाचारप्रिया वह्निर्वामाचारपरायणा ॥ ९७ ॥

वामाचाररता देवी वामदेवप्रियोत्तमा ।
बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी ॥ ९८ ॥

बन्धमोचनकर्त्री च वारुणा वरुणालया ।
शिवा शिवप्रिया शुद्धा शुद्धाङ्गी शुक्लवर्णिका ॥ ९९ ॥

शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा ।
शुक्लस्था शुक्लिनी शुक्लरूपा शुक्लपशुप्रिया ॥ १०० ॥

शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका ।
षण्मुखी च षडङ्गा च षट्चक्रविनिवासिनी ॥ १०१ ॥

षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका ।
षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ॥ १०२ ॥

षडानना षड्रसा च षष्ठी षष्ठेश्वरीप्रिया ।
षड्जवादा षोडशी च षोढान्यासस्वरूपिणी ॥ १०३ ॥

षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी ।
षोडशस्वररूपा च षण्मुखी षट्पदान्विता ॥ १०४ ॥ [षड्रदान्विता]

सनकादिस्वरूपा च शिवधर्मपरायणा ।
सिद्धसप्तस्वरी शुद्धा सुरमाता सुरोत्तमा ॥ १०५ ॥ [स्वरोत्तमा]

सिद्धविद्या सिद्धमाता सिद्धाऽसिद्धस्वरूपिणी ।
हरा हरिप्रियाहारा हरिणी हारयुक् तथा ॥ १०६ ॥

हरिरूपा हरिधरा हरिणाक्षी हरिप्रिया ।
हेतुप्रिया हेतुरता हिताऽहितस्वरूपिणी ॥ १०७ ॥

क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा ।
क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना ॥ १०८ ॥

अजानन्ता अपर्णा च अहल्या शेषशायिनी ।
स्वान्तर्गता च साधूनामन्तरानन्दरूपिणी ॥ १०९ ॥

अरूपा अमला चार्धा अनन्तगुणशालिनी ।
स्वविद्या विद्यकाविद्या विद्या चार्वीन्दुलोचना ॥ ११० ॥

अपराजिता जातवेदा अजपा अमरावती ।
अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥ १११ ॥

अष्टसिद्धिप्रदा देवी रूपलक्षणसम्युता ।
अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥ ११२ ॥

आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी ।
सीत्काररूपिणी देवी सर्वासनविभूषिता ॥ ११३ ॥

इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी ।
इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥ ११४ ॥

ईलाकामनिवासा च ईश्वरीश्वरवल्लभा ।
जननी चेश्वरी दीना भेदा चेश्वरकर्मकृत् ॥ ११५ ॥

उमा कात्यायनी ऊर्ध्वा मीना चोत्तरवासिनी ।
उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥ ११६ ॥

उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा ।
उद्यानवासिनीमाला प्रशस्तमणिभूषणा ॥ ११७ ॥

ऊर्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी ।
उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥ ११८ ॥

ऋषिपुत्री ऋषिच्छन्दा ऋषिसिद्धिप्रदायिनी ।
उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ॥ ११९ ॥

एला एकारविद्या च एणीविद्याधरा तथा ।
ओङ्कारवलयोपेता ओङ्कारपरमाकला ॥ १२० ॥

ओंवदवदवाणी च ओङ्काराक्षरमण्डिता ।
ऐन्द्री कुलिशहस्ता च ओंलोकपरवासिनी ॥ १२१ ॥

ओङ्कारमध्यबीजा च ओंनमोरूपधारिणी ।
परब्रह्मस्वरूपा च अंशुकांशुकवल्लभा ॥ १२२ ॥

ओङ्कारा अःफट् मन्त्रा च अक्षाक्षरविभूषिता ।
अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥ १२३ ॥

प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः ।
ह्रीङ्काररूपा ह्रीङ्कारी वाग्बीजाक्षरभूषणा ॥ १२४ ॥

हृल्लेखा सिद्धियोगा च हृत्पद्मासनसंस्थिता ।
बीजाख्या नेत्रहृदया ह्रीम्बीजा भुवनेश्वरी ॥ १२५ ॥

क्लीङ्कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा ।
क्लीङ्क्लीङ्क्लींरूपिका देवी क्रीङ्क्रीङ्क्रींनामधारिणी ॥ १२६ ॥

कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता ।
श्रींश्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ॥ १२७ ॥

ओं ऐं क्लीं ह्रीं श्रीं परा च क्लीङ्कारी परमा कला ।
ह्रीं क्लीं श्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥ १२८ ॥

सर्वाढ्या सर्वदेवी च सर्वसिद्धिप्रदा तथा ।
सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी ॥ १२९ ॥

सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी ।
गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ॥ १३० ॥

सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी ।
सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥ १३१ ॥

सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी ।
सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ॥ १३२ ॥

मनोवाञ्छितदात्री च मनोबुद्धिसमन्विता ।
अकारादिक्षकारान्ता दुर्गा दुर्गार्तिनाशिनी ॥ १३३ ॥

पद्मनेत्रा सुनेत्रा च स्वधा स्वाहा वषट्करी ।
स्ववर्गा देववर्गा च तवर्गा च समन्विता ॥ १३४ ॥

अन्तस्था वेश्मरूपा च नवदुर्गा नरोत्तमा ।
तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ॥ १३५ ॥

नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च ।
वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च ॥ १३६ ॥

मातङ्गी मधुमत्ता च अणिमा लघिमा तथा ।
सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥ १३७ ॥

रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता ।
स्वल्पसिद्धिः सुकल्पा च दिव्यचारणशुक्रभा ॥ १३८ ॥

सङ्क्रान्तिः सर्वविद्या च सप्तवासरभूषिता । [सस्यवासर-]
प्रथमा च द्वितीया च तृतीया च चतुर्थिका ॥ १३९ ॥

पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा ।
अष्टमी नवमी चैव दशम्येकादशी तथा ॥ १४० ॥

द्वादशी त्रयोदशी च चतुर्दश्यथ पूर्णिमा ।
अमावास्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥ १४१ ॥

खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा ।
भुशुण्डी चापिनी बाणा सर्वायुधविभूषणा ॥ १४२ ॥

कुलेश्वरी कुलवती कुलाचारपरायणा ।
कुलकर्मसुरक्ता च कुलाचारप्रवर्धिनी ॥ १४३ ॥

कीर्तिः श्रीश्च रमा रामा धर्मायै सततं नमः ।
क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥ १४४ ॥

उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी ।
साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥ १४५ ॥

काली कराली काल्या च कालदैत्यविनाशिनी ।
कौलिनी कालिकी चैव कचटतपवर्गिका ॥ १४६ ॥

जयिनी जययुक्ता च जयदा जृम्भिणी तथा ।
स्राविणी द्राविणी देवी भेरुण्डा विन्ध्यवासिनी ॥ १४७ ॥ [भरुण्डा]

ज्योतिर्भूता च जयदा ज्वालामालासमाकुला ।
भिन्नाभिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी ॥ १४८ ॥

अश्विनी भरणी चैव नक्षत्रसम्भवानिला ।
काश्यपी विनताख्याता दितिजा दितिरेव च ॥ १४९ ॥

कीर्तिः कामप्रिया देवी कीर्त्यकीर्तिविवर्धिनी ।
सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा ॥ १५० ॥

दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च ।
अग्निनैरृतिवायव्या ईशान्यादिक् तथा स्मृता ॥ १५१ ॥

ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका ।
चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ॥ १५२ ॥

चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा ।
चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ॥ १५३ ॥

धात्रीविधात्रीमिथुना नारीनायकवासिनी ।
सुरामुदा मुदवती मोदिनी मेनकात्मजा ॥ १५४ ॥

ऊर्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा ।
नीलसरस्वती सा त्वं बगला छिन्नमस्तका ॥ १५५ ॥

सर्वेश्वरी सिद्धविद्या परा परमदेवता ।
हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥ १५६ ॥

हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा ।
जाग्रती च जगन्माता जगदीश्वरवल्लभा ॥ १५७ ॥

जनार्दनप्रिया देवी जययुक्ता जयप्रदा ।
जगदानन्दकरी च जगदाह्लादकारिणी ॥ १५८ ॥

ज्ञानदानकरी यज्ञा जानकी जनकप्रिया ।
जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥ १५९ ॥

विद्याधरा च बिम्बोष्ठी कैलासाचलवासिनी ।
विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ॥ १६० ॥

मन्त्ररूपा परा देवी तथैव गुरुरूपिणी ।
गया गङ्गा गोमती च प्रभासा पुष्कराऽपि च ॥ १६१ ॥

विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी ।
बहू बहुसुन्दरी च कंसासुरविनाशिनी ॥ १६२ ॥

शूलिनी शूलहस्ता च वज्रा वज्रहराऽपि च ।
दुर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥ १६३ ॥

सर्वलोकप्रणेत्री च सर्वरोगहराऽपि च ।
मङ्गला शोभना शुद्धा निष्कला परमा कला ॥ १६४ ॥

विश्वेश्वरी विश्वमाता ललितावासितानना ।
सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा ॥ १६५ ॥

सर्वदेवमयी देवी सर्वागमभयापहा ।
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ १६६ ॥

योगिनी योगमाता च योगीन्द्रहृदयस्थिता ।
योगिजाया योगवती योगीन्द्रानन्दयोगिनी ॥ १६७ ॥

इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया ।
विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी ॥ १६८ ॥

भववेषा कामिनी च भेरुण्डा भयकारिणी ।
बलभद्रप्रियाकारा संसारार्णवतारिणी ॥ १६९ ॥

पञ्चभूता सर्वभूता विभूतिर्भूतिधारिणी ।
सिंहवाहा महामोहा मोहपाशविनाशिनी ॥ १७० ॥

मन्दुरा मदिरा मुद्राऽमुद्रा मुद्गरधारिणी ।
सावित्री च महादेवी परप्रियविनायिका ॥ १७१ ॥

यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा ।
चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ॥ १७२ ॥

चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी ।
सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥ १७३ ॥

महाभोगवती देवी महामोक्षप्रदायिनी ।
विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥ १७४ ॥

धात्री च सर्वलोकानां हितकारणकामिनी ।
कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५ ॥

सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च ।
परारूपवती देवी त्रैलोक्याकर्षकारिणी ॥ १७६ ॥

फलश्रुतिः –
इति ते कथितं देवि पीतानामसहस्रकम् ।
पठेद्वा पाठयेद्वापि सर्वसिद्धिर्भवेत् प्रिये ॥ १७७ ॥

इति ते विष्णुना प्रोक्तं महास्तम्भकरं परम् ।
प्रातः काले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८ ॥

एकचित्तः पठेदेतत् सर्वसिद्धिर्भविष्यति ।
एकवारं पठेद्यस्तु सर्वपापक्षयो भवेत् ॥ १७९ ॥

द्विवारं प्रपठेद्यस्तु विघ्नेश्वरसमो भवेत् ।
त्रिवारं पठनाद्देवि सर्वं सिद्ध्यति सर्वथा ॥ १८० ॥

स्तवस्याऽस्य प्रभावेण साक्षाद्भवति सुव्रते ।
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ॥ १८१ ॥

विद्यार्थी लभते विद्यां तर्कव्याकरणान्विताम् ।
महित्वं वत्सरान्ताच्च शत्रुहानिः प्रजायते ॥ १८२ ॥

क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् ।
यः पठेत् सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३ ॥

गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः ।
गोपनीयं प्रयत्नेन जननीजारवत्सदा ॥ १८४ ॥

हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् ।
य इदं पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५ ॥

जीवन् धर्मार्थभोगी स्यान्मृतो मोक्षपतिर्भवेत् ।
सत्यं सत्यं महादेवि सत्यं सत्यं न संशयः ॥ १८६ ॥

स्तवस्यास्य प्रभावेण देवेन सह मोदते ।
सुचित्ताश्च सुराः सर्वे स्तवराजस्य कीर्तनात् ॥ १८७ ॥

पीताम्बरपरीधाना पीतगन्धानुलेपना ।
परमोदयकीर्तिः स्यात् स्मरतः सुरसुन्दरि ॥ १८८ ॥

इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्रे विष्णुशङ्करसंवादे श्री बगलामुखी सहस्रनाम स्तोत्रम् ॥


इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments