Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीभैरव उवाच ।
शृणु देवि प्रवक्ष्यामि स्वरहस्यं च कामदम् ।
श्रुत्वा गोप्यं गुप्ततमं कुरु गुप्तं सुरेश्वरि ॥ १ ॥
कवचं बगलामुख्याः सकलेष्टप्रदं कलौ ।
तत्सर्वस्वं परं गुह्यं गुप्तं च शरजन्मना ॥ २ ॥
त्रैलोक्यविजयं नाम कवचेशं मनोरमम् ।
मन्त्रगर्भं ब्रह्ममयं सर्वविद्याविनायकम् ॥ ३ ॥
रहस्यं परमं ज्ञेयं साक्षादमृतरूपकम् ।
ब्रह्मविद्यामयं वर्म दुर्लभं प्राणिनां कलौ ॥ ४ ॥
पूर्णमेकोनपञ्चाशद्वर्णैरुक्तं महेश्वरि ।
त्वद्भक्त्या वच्मि देवेशि गोपनीयं स्वयोनिवत् ॥ ५ ॥
श्रीदेव्युवाच ।
भगवन् करुणासार विश्वनाथ सुरेश्वर ।
कर्मणा मनसा वाचा न वदामि कदाचन ॥ ६ ॥
श्रीभैरव उवाच ।
त्रैलोक्यविजयाख्यस्य कवचास्यास्य पार्वति ।
मनुगर्भस्य गुप्तस्य ऋषिर्देवोऽस्य भैरवः ॥ ७ ॥
उष्णिक्छन्दः समाख्यातं देवी श्रीबगलामुखी ।
बीजं ह्लीं ओं शक्तिः स्यात् स्वाहा कीलकमुच्यते ॥ ८ ॥
विनियोगः समाख्यातो त्रिवर्गफलप्राप्तये । [सिद्धये]
देवि त्वं पठ वर्मैतन्मन्त्रगर्भं सुरेश्वरि ।
विना ध्यानम् कुतः सिद्धिः सत्यमेतच्च पार्वति ॥ ९ ॥
ध्यानम् –
चन्द्रोद्भासितमूर्धजां रिपुरसां मुण्डाक्षमालाकरां
बालांसत्स्रकचञ्चलां मधुमदां रक्तां जटाजूटिनीम् ।
शत्रुस्तम्भनकारिणीं शशिमुखीं पीताम्बरोद्भासिनीम्
प्रेतस्थां बगलामुखीं भगवतीं कारुण्यरूपां भजे ॥ १० ॥
कवचं –
ओं ह्लीं मम शिरः पातु देवी श्रीबगलामुखी ।
ओं ऐं क्लीं पातु मे फालं देवी स्तम्भनकारिणी ॥ ११ ॥
ओं अं इं हं भ्रुवोर्देशं पातु मे क्लेशहारिणी ।
ओं हं पातु मे नेत्रे नारसिंही शुभङ्करी ॥ १२ ॥
ओं ह्लीं श्रीं पातु मे गण्डौ अं आं इं भुवनेश्वरी ।
ओं ऐं क्लीं सौः श्रुतौ पातु ईं उं ऊं च परेश्वरी ॥ १३ ॥
ओं ह्लीं ह्लूं ह्लीं सदाव्यान्मे नासां ऋं ॠं सरस्वती ।
ओं ह्रां ह्रीं मे मुखं पातु लुं एं ऐं छिन्नमस्तिका ॥ १४ ॥
ओं श्रीं वं मेऽधरौ पातु ओं औं दक्षिणकालिका ।
ओं क्लीं श्रीं शिरसः पातु अं अः कं खं च सारिका ॥ १५ ॥
ओं ह्रीं ह्रूं भैरवी पातु गं घं ङं त्रिपुरेश्वरी ।
ओं ऐं सौः मे हनुं पातु चं छं जं च मनोन्मनी ॥ १६ ॥
ओं श्रीं श्रीं मे गलं पातु झं ञं टं ठं गणेश्वरी ।
ओं स्कन्धौ मेऽव्याद् डं ढं णं हूं हूं चैव तु तोतला ॥ १७ ॥
ओं ह्रीं श्रीं मे भुजौ पातु तं थं दं वरवर्णिनी ।
ओं ऐं क्लीं सौः स्तनौ पातु धं नं पं परमेश्वरी ॥ १८ ॥
क्रों क्रों मे रक्षयेद् वक्षः फं बं भं भगवासिनी ।
ओं ह्रीं रां पातु कक्षि मे मं यं रं वह्निवल्लभा ॥ १९ ॥
ओं श्रीं ह्रूं पातु मे पार्श्वौ लं बं लम्बोदर प्रसूः ।
ओं श्रीं ह्रीं पातु मे नाभिं शं षं षण्मुखपालिनी ॥ २० ॥
ओं ऐं सौः पातु मे पृष्ठं सं हं हाटकरूपिणी ।
ओं क्लीं ऐं कटि पातु पञ्चाशद्वर्णमालिका ॥ २१ ॥
ओं ऐं क्लीं पातु मे गुह्यं अं आं कं गुह्यकेश्वरी ।
ओं श्रीं ऊं ऋं सदाव्यान्मे इं ईं खं खां स्वरूपिणी ॥ २२ ॥
ओं जूं सः पातु मे जङ्घे रुं रूं धं अघहारिणी ।
ओं श्रीं ह्रीं पातु मे जानू उं ऊं णं गणवल्लभा ॥ २३ ॥
ओं श्रीं सः पातु मे गुल्फौ लिं लीं ऊं चं च चण्डिका ।
ओं ऐं ह्रीं पातु मे वाणी एं ऐं छं जं जगत्प्रिया ॥ २४ ॥
ओं श्रीं क्लीं पातु पादौ मे झं ञं टं ठं भगोदरी ।
ओं ह्रीं सर्वं वपुः पातु अं अः त्रिपुरमालिनी ॥ २५ ॥
ओं ह्रीं पूर्वे सदाऽव्यान्मे झं झां डं ढं शिखामुखी ।
ओं सौः याम्यं सदाव्यान्मे इं ईं णं तं च तारिणी ॥ २६ ॥
ओं वारुण्यां च वाराही उं थं दं धं च कम्पिला ।
ओं श्रीं मां पातु चैशान्यां पातु ओं नं जनेश्वरी ॥ २७ ॥
ओं श्रीं मां पातु चाग्नेयां ऋं भं मं धं च योगिनी ।
ओं ऐं मां पातु नैरृत्यां लुं लं राजेश्वरी तथा ॥ २८ ॥
ओं श्रीं मां पातु वायव्यां लूं लं च वीतकेशिनी ।
ओं प्रभाते च मां पातु लीं लं वागीश्वरी सदा ॥ २९ ॥
ओं मध्याह्ने च मां पातु ऐं क्षं शङ्करवल्लभा ।
ओं श्रीं ह्रीं क्लीं पातु सायं ऐं आं शाकम्बरी सदा ॥ ३० ॥
ओं ह्रीं निशादौ मां पातु ओं सं सागरवासिनी ।
क्लीं निशीथे च मां पातु ओं हं हरिहरेश्वरी ॥ ३१ ॥
ओं क्लीं ब्राह्मे मुहूर्तेऽव्याद् लं लां त्रिपुरसुन्दरी ।
विसर्गा तु यत् स्थानं वर्जितं कवचेन तु ।
क्लीं तन्मे सकलं पातु अं क्षं ह्रीं बगलामुखी ॥ ३२ ॥
फलश्रुतिः –
इतीदं कवचं दिव्यं मन्त्राक्षरमयं परम् ।
त्रैलोक्यविजयं नाम सर्ववर्णमयं स्मृतम् ॥ ३३ ॥
अप्रकाश्यं सदा देवि श्रोतव्यं वा च वाचिकम् ।
दुर्जनायाकुलीनाय दीक्षाहीनाय पार्वति ॥ ३४ ॥
न दातव्यं न दातव्यमित्याज्ञा परमेश्वरी ।
दीक्षाकार्यविहीनाय शक्तिभक्तिविरोधिने ॥ ३५ ॥
कवचस्यास्य पठनात् साधको दीक्षितो भवेत् ।
कवचेशमिदं गोप्यं सिद्धविद्यामयं परम् ॥ ३६ ॥
ब्रह्मविद्यामयं गोप्यं यथेष्टफलदं शिवे ।
न कस्य कथितं चैतद् त्रैलोक्यविजयेश्वरम् ॥ ३७ ॥
अस्य स्मरणमात्रेण देवी सद्यो वशी भवेत् ।
पठनाद्धारणादस्य कवचेशस्य साधकः ॥ ३८ ॥
कलौ विचरते वीरो यथा श्रीबगलामुखी ।
इदं वर्म स्मरेन्मन्त्री सङ्ग्रामे प्रविशेद्यदा ॥ ३९ ॥
युयुत्सुः पठन् कवचं साधको विजयी भवेत् ।
शत्रुं कालसमानं तु जित्वा स्वगृहमेति सः ॥ ४० ॥
मूर्ध्नि धृत्वा यः कवचं मन्त्रगर्भं सुसाधकः ।
ब्रह्माद्यमरान् सर्वान् सहसा वशमानयेत् ॥ ४१ ॥
धृत्वा गले तु कवचं साधकस्य महेश्वरि ।
वशमायान्ति सहसा रम्भाद्यप्सरसां गणाः ॥ ४२ ॥
उत्पातेषु च घोरेषु भयेषु विविधेषु च ।
रोगेषु च कवचेशं मन्त्रगर्भं पठेन्नरः ॥ ४३ ॥
कर्मणा मनसा वाचा तद्भयं शान्तिमेष्यति ।
श्रीदेव्या बगलामुख्याः कवचेशं मयोदितम् ॥ ४४ ॥
त्रैलोक्यविजयं नाम पुत्रपौत्रधनप्रदम् ।
ऋणं च हरते सम्यक् लक्ष्मीर्भोगविवर्धिनी ॥ ४५ ॥
वन्ध्या जनयते कुक्षौ पुत्ररत्नं न चान्यथा ।
मृतवत्सा च विभूयात् कवचं च गले सदा ॥ ४६ ॥
दीर्घायुर्व्याधिहीनश्च तत्पुत्रो वर्धतेऽनिशम् ।
इतीदं बगलामुख्याः कवचेशं सुदुर्लभम् ॥ ४७ ॥
त्रैलोक्यविजयं नाम न देयं यस्यकस्यचित् ।
अकुलीनाय मूढाय भक्तिहीनाय दम्भिने ॥ ४८ ॥
लोभयुक्ताय देवेशि न दातव्यं कदाचन ।
लोभदम्भविहीनाय कवचेशं प्रदीयताम् ॥ ४९ ॥
अभक्तेभ्यो अपुत्रेभ्यो दत्त्वा कुष्ठी भवेन्नरः ।
रवौ रात्रौ च सुस्नातः पूजागृहगतः सुधीः ॥ ५० ॥
दीपमुज्ज्वाल्य मूलेन पठेद्धर्मेदमुत्तमम् ।
प्राप्तौ सत्यां त्रिरात्रौ हि राजा तद्गृहमेष्यति ।
मण्डलेशो महेशानि देवि सत्यं न संशयः ॥ ५१ ॥
इदं तु कवचेशं तु मया प्रोक्तं नगात्मजे ।
गोप्यं गुह्यतरं देवि गोपनीयं स्वयोनिवत् ॥ ५२ ॥
इति श्रीविश्वयामले त्रैलोक्यविजयं नाम श्री बगलामुखी कवचम् ॥
इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.