Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
१। रुद्रयामले
—————-
ओङ्कारं बिन्दुसम्युक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥ १ ॥
नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥ २ ॥
महादेवं महात्मानं महाध्यानपरायणम् ।
महापापहरं देवं मकाराय नमो नमः ॥ ३ ॥
शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४ ॥
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥ ५ ॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ ६ ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
२। श्रीमच्छङ्कराचार्य कृतं
—————————
ओङ्कारं बिन्दुसम्युक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मादोङ्काराय नमो नमः ॥ १ ॥
ओं नं,
नमन्ति मुनयस्सर्वे नमन्त्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमो नमः ॥ २ ॥
ओं मं,
महत्तत्त्वं महादेवप्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमो नमः ॥ ३ ॥
ओं शिं,
शिवं शान्तं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमो नमः ॥ ४ ॥
ओं वां,
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥ ५ ॥
ओं यं,
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानन्दं यकाराय नमो नमः ॥ ६ ॥
यः क्षीराम्बुधि मन्थनोद्भव महाहालाहलं भीकरं
दृष्ट्वा तत्रपलायितास्सुरगणान्नारायणादीन्तदा ।
सम्पीत्वा परिपालयज्जगदिदं विश्वाधिकं शङ्करं
सेव्यो नस्सकलापदां परिहरन्कैलासवासी विभुः ॥ ७ ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥ ८ ॥
यत्कृत्यं तन्नकृतं
यदकृत्यं कृत्यवत्तदाचरितम् ।
उभयोः प्रायश्चित्तं
शिव तव नामाक्षरद्वयोच्चरितम् ॥ ९ ॥
शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भजमनश्शिवमेव निरन्तरम् ॥ १० ॥
इति श्रीमच्छङ्करचार्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.