Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारायणीयं अष्टादशदशकम् (१८) – पृथुचरितम्
जातस्य ध्रुवकुल एव तुङ्गकीर्ते-
-रङ्गस्य व्यजनि सुतः स वेननामा ।
तद्दोषव्यथितमतिः स राजवर्य-
-स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥ १८-१ ॥
पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव सम्प्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ १८-२ ॥
सम्प्राप्ते हितकथनाय तापसौघे
मत्तोऽन्यो भुवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥ १८-३ ॥
तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै-
-स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डा-
-द्दोर्दण्डे परिमथिते त्वमाविरासीः ॥ १८-४ ॥
विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्री-
-माक्रान्तां निजधनुषा समामकार्षीः ॥ १८-५ ॥
भूयस्तां निजकुलमुख्यवत्सयुक्तै-
-र्देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ १८-६ ॥
आत्मानं यजति मखैस्त्वयि त्रिधाम-
-न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ १८-७ ॥
देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनिवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ १८-८ ॥
तद्दत्तं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस-
-न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ १८-९ ॥
विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक् पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥ १८-१० ॥
इति अष्टादशदशकं समाप्तम् ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.