Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वा॒म॒देवा॒य न॑मः – स्नानम् ।
॥ पञ्चामृतस्नानम् ॥
अथ (पञ्चामृत स्नानं) पञ्चामृतदेवताभ्यो नमः ।
ध्यानावाहनादि षोडशोपचारपूजास्समर्पयामि ।
श्री रुद्र प्रीत्यर्थं पञ्चामृतस्नानं करिष्यामः ।
क्षीरम् –
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
श्री रुद्राय नमः क्षीरेण स्नपयामि ।
// (तै.सं.३-२-५-१८) आ, प्यायस्व, सं, एतु, ते, विश्वतः, सोम, वृष्णियं, भव, वाजस्य, सं-गथे //
दधि –
द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥
श्री रुद्राय नमः । दध्ना स्नपयामि ।
// (तै.सं. ७-४-१९-५०) दधि, क्राव्-ण्णः, अकारिषं, जिष्णोः, अश्वस्य, वाजिनः, सुरभि, नः, मुखा, करत्, प्र-नः, आयूंषि, तारिषत् //
आज्यम् –
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑: सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒: सूर्य॑स्य र॒श्मिभि॑: ॥
श्री रुद्राय नमः । आज्येन स्नपयामि ।
// (तै.सं. १-१-१०-१८), शुक्रं, असि, ज्योतिः, असि, तेजः, असि, देवः, वः, सविता, उत्, पुनातु, अच्छिद्रेण, पवित्रेण, वसोः, सूर्यस्य, रश्मि-भिः //
मधु –
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वोष॑धीः ॥
मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रज॑: ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ॥
श्री रुद्राय नमः । मधुना स्नपयामि ।
// (तै.सं. ४-२-९-३८) मधु, वाताः, ऋत-यते, मधु, क्षरन्ति, सिन्धवः, माध्वीः, नः, सन्तु, ओषधीः, मधु, नक्तं, उत, उषसि, मधु-मत्, पार्थिवं, रजः, मधु, द्यौः, अस्तु, नः, पिता, मधु-मान्, नः, वनस्पतिः, मधु-मान्, अस्तु, सूर्यः, माध्वीः, गावः, भवन्तु, नः //
शर्कर –
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा॑य सु॒हवी॑तु॒ नाम्ने᳚ ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मा॒ग्ं अदा᳚भ्यः ॥
श्री रुद्राय नमः । शर्करया स्नपयामि ।
// (ऋ.वे.९-८५-६) स्वादुः, पवस्व, दिव्याय, जन्मने, स्वादुः, इन्द्राय, सुहवीतु नाम्ने, स्वादुः, मित्राय, वरुणाय, वायवे, बृहस्पतये, मधु-मान्, अदाभ्यः //
श्री रुद्राय नमः । पञ्चामृत स्नानं समर्पयामि ।
॥ विविध द्रव्याभिषेकम् ॥
शङ्खोदकम् –
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
श्री रुद्राय नमः । शङ्खोदकेन स्नपयामि ॥
// (तै.सं. ७-४-१९-५०) आपः, हि, स्थ, मयः-भुवः, ताः, नः, ऊर्जे, दधातन, महे, रणाय, चक्षसे, यः, वः, शिव-तमः, रसः, तस्य, भाजयत, इह, नः, उशतीः, इव, मातरः, तस्मै, अरं, गमाम, वः, यस्य, क्षयाय, जिन्वथ, आपः, जनयथ, च, नः //
फलोदकम् –
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी᳚: ।
बृह॒स्पति॑ प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वग्ंह॑सः ॥
श्री रुद्राय नमः । फलोदकेन स्नपयामि ।
// (तै.सं.४-२-६-२७) याः, फलिनीः, याः, अफलाः, अपुष्पाः, याः, च, पुष्पिणीः, बृहस्पति-प्रसूताः, ताः, नः, मुञ्चन्तु, अं-हसः //
गन्धोदकम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
श्री रुद्राय नमः । गन्धोदकेन स्नपयामि ।
// (तै.आ.१०-१-१०) गन्ध-द्वारां, दुराधर्षां, नित्य-पुष्टां, करीषिणीं, ईश्वरीं, सर्वभूतानां, तां, इह, उपह्वये, श्रियं //
पुष्पोदकम् –
यो॑ऽपां पुष्पं॒ वेद॑ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्प᳚म् ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ॥
श्री रुद्राय नमः । पुष्पोदकेन स्नपयामि ।
// (तै.आ.१-२२-७८) यः, अपां, पुष्पं, वेद, पुष्प-वान्, प्रजा-वान्, पशु-मान्, भवति, चन्द्रम, वा, अपां, पुष्पं, पुष्प-वान्, प्रजा-वान्, पशु-मान्, भवति //
अक्षतोदकम् –
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणी॑: ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥
श्री रुद्राय नमः । अक्षतोदकेन स्नपयामि ।
// (ऋ.वे.१०-१४२-८) आ-अयने, ते, परा-अयने, दूर्वाः, रोहन्तु, पुष्पिणीः, ह्रदाः, च, पुण्डरीकाणि, समुद्रस्य, गृहाः, इमे //
सुवर्णोदकम् –
तथ्सु॒वर्ण॒ग्ं॒ हिर॑ण्यमभवत् ।
तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ ।
य ए॒वग्ं सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वे॑द ।
सु॒वर्ण॑ आ॒त्मना॑ भवति ॥
श्री रुद्राय नमः । सुवर्णोदकेन स्नपयामि ।
// (तै.ब्रा.२-२-४-५-२५) तत्, सुवर्णं, हिरण्यं, अभवत्, तत्, सुवर्णस्य, हिरण्यस्य, जन्म, य, एवं, सुवर्णस्य, हिरण्यस्य, जन्म, वेद, सुवर्ण, आत्मन, भवति //
रुद्राक्षोदकम् –
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒ वर्ध॑नं ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥
श्री रुद्राय नमः । रुद्राक्षोदकेन स्नपयामि ।
// (तै.सं.१-७-६-११), त्रि, अम्बकं, यजामहे, सुगन्धिं, पुष्टि-वर्धनं, उर्वारुकं, इव, बन्धनात्, मृत्योः, मुक्षीय, मा, अमृतात् //
भस्मोदकम् –
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑
प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥
श्री रुद्राय नमः । भस्मोदकेन स्नपयामि ।
// (तै.सं.४-५-१०-२२) मा, नः, महान्तं, उत, मा, नः, अर्भकं, मा, नः, उक्षन्तं, उत, मा, नः, उक्षितं, मा, नः, वधीः, पितरं, मा, उत, मातरं, प्रियाः, मा, नः, तनुवः, रुद्र, रीरिषः //
बिल्वोदकम् –
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒
नम॑सा विधेम ते ॥
श्री रुद्राय नमः । बिल्वोदकेन स्नपयामि ।
// (तै.सं.४-५-१०-२२) मा, नः, तोके, तनये, मा, नः, आयुषि, मा, नः, गोषु, मा, नः, अश्वेषु, रीरिषः, वीरान्, मा, नः, रुद्र, भामितः, वधीः, हविष्मन्तः, नमसा, विधेम, ते //
दूर्वोदकम् –
काण्डा᳚त्काण्डात् प्र॒रोह॑न्ति परु॑षःपरुष॒: परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ॥
श्री रुद्राय नमः । दूर्वोदकेन स्नपयामि ।
// (तै.सं.४-२-९-३७) काण्डात्-काण्डात्, प्र-रोहन्ती, परुषः-परुषः, परि, एवा, नः, दूर्वे, प्र, तनु, सहस्रेण, शतेन, च //
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.