Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(* अथैनं गन्धाक्षत पत्र पुष्प धूप दीप नैवेद्य ताम्बूलैरभ्यर्च्य आत्मानं प्रत्याराधयेत् *)
(बोधायन-गृह्यसूत्रं-२.१८)
आराधितो मनुष्यैस्त्वं सिद्धैर्देवाऽसुरादिभिः ।
आराधयामि शक्त्या त्वाऽनुगृहाण महेश्वर ॥
(तै.सं.१-८-६-११)
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ १
// त्रि, अम्बकं, यजामहे, सु-गन्धिं, पुष्टि-वर्धनं, उर्वारुकं, इव, बन्धनात्, मृत्योः, मुक्षीय, मा, अमृतात् //
(तै.आ.ए.का.२-१८)
आ त्वा॑ वहन्तु॒ हर॑य॒: सचे॑तसः श्वे॒तैरश्वै᳚: स॒ह के॑तु॒मद्भि॑: ।
वाता॑जिरै॒र्मम॑ ह॒व्याय॑ शर्व ॥
[* पाठभेदः –
वाता॑जितै॒र्बल॑वद्भि॒र्मनो॑जवै॒राया॑हि शी॒घ्रं मम॑ ह॒व्याय॑ श॒र्वोम् । *]
// आ, त्वा, वहन्तु, हरयः, सचेतसः, श्वेतैः अश्वैः, सह, केतुं, अद्भिः, वाताजिरैः, मम, हव्याय, शर्व //
ईशानमावाहयामि । इति आवाह्य ॥
मण्डलान्तरगतं हिरण्मयं
भ्राजमानवपुषं शुचिस्मितम् ।
चण्डदीधितिमखण्डविग्रहं
चिन्तयेन्मुनिसहस्रसेवितम् ॥ १
शङ्करस्य चरिता कथामृतं
चन्द्रशेखर गुणानुकीर्तनम् ।
नीलकण्ठ तव पादसेवनं
संभवन्तु मम जन्मजन्मनि ॥ २
स्वामिन् सर्वजगन्नाथ यावत्पूजाऽवसानकम् ।
तावत्त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधिं कुरु ॥३
आवाहितो भव । स्थापितो भव ।
सम्मुखो भव । सन्निहितो भव ।
सन्निरुद्धो भव । अवकुण्ठितो भव ।
प्रसीद प्रसीद ।
ओं स॒द्योजा॒तं प्र॑पद्या॒मि । १
श्री रुद्राय नमः । आवाहनं समर्पयामि ।
ओं स॒द्योजा॒ताय॒ वै नमो॒ नम॑: । २
श्री रुद्राय नमः । रत्न सिंहासनं समर्पयामि ।
ओं भ॒वे भ॑वे॒न । ३
श्री रुद्राय नमः । पाद्यं समर्पयामि ।
ओं आति॑भवे भवस्व॒ माम् । ४
श्री रुद्राय नमः । अर्घ्यं समर्पयामि ।
ओं भ॒वोद्भ॑वाय॒ नम॑: । ५
श्री रुद्राय नमः । आचमनीयं समर्पयामि ।
ओं वा॒म॒दे॒वाय॒ नम॑: । ६
श्री रुद्राय नमः । स्नानं समर्पयामि ।
ओं ज्ये॒ष्ठाय॒ नम॑: । ७
श्री रुद्राय नमः । वस्त्रं समर्पयामि ।
ओं श्रे॒ष्ठाय॒ नम॑: । ८
श्री रुद्राय नमः । उपवीतं समर्पयामि ।
ओं रु॒द्राय॒ नम॒: । ९
श्री रुद्राय नमः । आभरणानि समर्पयामि ।
ओं काला॑य॒ नम॑: । १०
श्री रुद्राय नमः । गन्धं समर्पयामि ।
ओं कल॑विकरणाय॒ नम॑: । ११
श्री रुद्राय नमः । अक्षतान् समर्पयामि ।
ओं बल॑ विकरणाय॒ नमः । १२
श्री रुद्राय नमः । पुष्पाणि समर्पयामि ।
ओं बला॑य॒ नम॑: । १३
श्री रुद्राय नमः । धूपं समर्पयामि ।
ओं बल॑ प्रमथनाय॒ नम॑: । १४
श्री रुद्राय नमः । दीपं समर्पयामि ।
ओं सर्व॑भूतदमनाय॒ नम॑: । १५
श्री रुद्राय नमः । नैवेद्यं समर्पयामि ।
ओं म॒नोन्म॑नाय॒ नम॑: । १६
श्री रुद्राय नमः । ताम्बूलं समर्पयामि ।
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
श्री रुद्राय नमः । उत्तरनीराजनम् समर्पयामि ।
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
श्री रुद्राय नमः । मन्त्रपुष्पं समर्पयामि ।
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
श्री रुद्राय नमः । प्रदक्षिणनमस्कारान् समर्पयामि ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.