Site icon Stotra Nidhi

Chandra Graha Vedic Mantra – चन्द्र ग्रहस्य वैदिक मन्त्र जपम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम चन्द्र ग्रहपीडापरिहारार्थं चन्द्र ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं चन्द्र ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– चन्द्र मन्त्रः –

इमं देवा इति मन्त्रस्य देवावात ऋषिः स्वराट् ब्राह्मी त्रिष्टुप् छन्दः सोमो देवता असपत्नमिति बीजं सोम प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं देवावात ऋषये नमः शिरसि ।
ओं स्वराट् ब्राह्मी त्रिष्टुप् छन्दसे नमः मुखे ।
ओं सोम देवतायै नमः हृदये ।
ओं असपत्नमिति बीजाय नमः गुह्ये ।
ओं सोम प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं इमं देवाऽअसपत्नग्ं सुवध्वमिति अङ्गुष्ठाभ्यां नमः ।
ओं महते क्षत्रायेति तर्जनीभ्यां नमः ।
ओं महते ज्यैष्ठ्यायेति मध्यमाभ्यां नमः ।
ओं महते जानराज्यायेन्द्रस्येन्द्रियायेति अनामिकाभ्यां नमः ।
ओं इमममुष्य पुत्रममुष्यै इति कनिष्ठिकाभ्यां नमः ।
ओं पुत्रमस्यै विशऽएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानाग्ं राजेति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं इमं देवाऽअसपत्नग्ं सुवध्वमिति हृदयाय नमः ।
ओं महते क्षत्रायेति शिरसे स्वाहा ।
ओं महते ज्यैष्ठ्यायेति शिखायै वषट् ।
ओं महते जानराज्यायेन्द्रस्येन्द्रियायेति कवचाय हुम् ।
ओं इमममुष्य पुत्रममुष्यै इति नेत्रत्रयाय वौषट् ।
ओं पुत्रमस्यै विशऽएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानाग्ं राजेति अस्त्राय फट् ।

ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः किरीटी
श्रेयांसि मह्यं विदधातु देवः ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।१०-१८)
ओं इ॒मं दे॑वाऽअसप॒त्नग्ं सु॑वध्वं मह॒ते क्ष॒त्रा॑य मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ । इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽ ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानां॒(ग्) राजा॑ ॥

ओं सोमाय नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत चन्द्र ग्रहस्य मन्त्र जपेन चन्द्र सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments