Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।
पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ मम बृहस्पति ग्रहपीडापरिहारार्थं बृहस्पति ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं बृहस्पति ग्रहस्य बीजमन्त्र जपं करिष्ये ॥
– बृहस्पतिः –
ध्यानम् –
स्वर्णाम्बरः स्वर्णवपुः किरीटी
चतुर्भुजो देवगुरुः प्रशान्तः ।
दधाति दण्डं च कमण्डलुं च
तथाऽक्षसूत्रं वरदोऽस्तु मह्यम् ॥
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥
लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
हं आकाशात्मने पुष्पं परिकल्पयामि ।
यं वाय्वात्मने धूपं परिकल्पयामि ।
रं अग्न्यात्मने दीपं परिकल्पयामि ।
वं अमृतात्मने नैवेद्यं परिकल्पयामि ।
सं सर्वात्मने सर्वोपचारान् परिकल्पयामि ।
बीजमन्त्रः –
ओं ग्रां ग्रीं ग्रौं सः गुरवे नमः । (१९०००)
समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥
अनेन मया कृत बृहस्पति ग्रहस्य मन्त्रजपेन बृहस्पति ग्रहदेवता सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.