Site icon Stotra Nidhi

Angaraka Graha Vedic Mantra – अङ्गारक ग्रहस्य वैदिक मन्त्र जपम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम अङ्गारक ग्रहपीडापरिहारार्थं अङ्गारक ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं अङ्गारक ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– अङ्गारक मन्त्रः –

अग्निर्मूर्धैत्यस्य मन्त्रस्य विरूप ऋषिः निचृद्गायत्री छन्दः भौमो देवता ककुदिति बीजं भौम प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं विरूप ऋषये नमः शिरसि ।
ओं निचृद्गायत्री छन्दसे नमः मुखे ।
ओं भौम देवतायै नमः हृदये ।
ओं ककुदिति बीजाय नमः गुह्ये ।
ओं भौम प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं अग्निर्मूर्धेति अङ्गुष्ठाभ्यां नमः ।
ओं दिवः ककुदिति तर्जनीभ्यां नमः ।
ओं पतिः पृथिव्या अयमिति मध्यमाभ्यां नमः ।
ओं अपामिति अनामिकाभ्यां नमः ।
ओं रेतांसीति कनिष्ठिकाभ्यां नमः ।
ओं जिन्वतीति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं अग्निर्मूर्धेति हृदयाय नमः ।
ओं दिवः ककुदिति शिरसे स्वाहा ।
ओं पतिः पृथिव्या अयमिति शिखायै वषट् ।
ओं अपामिति कवचाय हुम् ।
ओं रेतांसीति नेत्रत्रयाय वौषट् ।
ओं जिन्वतीति अस्त्राय फट् ।

ध्यानम् –
रक्ताम्बरो रक्तवपुः किरीटी
चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली
सदा मम स्याद्वरदः प्रशान्तः ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।३-१२)
ओं अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्याऽ अ॒यम् ।
अ॒पाग्ं रेता॑ग्ंसि जिन्वति ॥

ओं भौमाय नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत अङ्गारक ग्रहस्य मन्त्र जपेन अङ्गारक सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments