Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
लक्ष्मीवल्लभ सङ्कल्पवल्लभाय महात्मने ।
श्रीमद्विखनसे तुभ्यं मुनिवर्याय मङ्गलम् ॥ १ ॥
लक्ष्म्यामातृमते तस्याः पत्यापितृमतेऽनघैः ।
भृग्वाद्यैः पुत्रिणेऽस्माकं सूत्रकाराय मङ्गलम् ॥ २ ॥
स्वसूत्रविहीतोत्कृष्ट विष्णुबल्याख्यकर्मणा ।
गर्भवैष्णवतासिद्धिख्यापकायास्तु मङ्गलम् ॥ ३ ॥
भक्त्या भगवतः पूजां मुक्त्यापायं श्रुतीरितम् ।
स्वयं दर्शय तेऽस्माकं सूत्रकाराय मङ्गलम् ॥ ४ ॥
श्रीवेङ्कटेश करुणा प्रवेशाग्र भुवे सदा ।
करुणानिधयेऽस्माकं गुरवे तेऽस्तु मङ्गलम् ॥ ५ ॥
विष्णोः परत्वकधन पूर्वमर्चान् विधायिने ।
श्रीमद्विखससे नित्यं गुरवे तेऽस्तु मङ्गलम् ॥ ६ ॥
नारायाण परं सूत्रं श्रुतिवाक्त्येक संश्रयम् ।
प्रकाश्य सूत्रकाराणां दृषते मूर्ध्नि मङ्गलम् ॥ ७ ॥
आत्मनो मुनिराजत्वसूचनाय च मूर्ध्नि (च) ।
किरीटधारिणे पापहारिणे तेऽस्तु मङ्गलम् ॥ ८ ॥
जन्मन्येन स्वभुजयोर्द्वयोः शङ्खौरिधारिणे ।
वरदाभयहस्ताय मुनिराजाय मङ्गलम् ॥ ९ ॥
योगनिष्ठ प्रभायुक्त स्वरूप प्रतिभानवे ।
गुरवे विखनो नाम्ना विष्णुपुत्राय मङ्गलम् ॥ १० ॥
य इदं पद्यदशकं विखनो मङ्गलाभिधम् ।
पठेद्वा शृणुयात्तस्य मङ्गलं तनुयात्पृथुः ॥ ११ ॥
इति श्री विखनस मङ्गल दशकम् ।
इतर श्री विखनस स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.