Site icon Stotra Nidhi

Sri Shani Mala Mantra – श्री शनैश्चर माला मन्त्रः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अस्य श्रीशनैश्चरमालामन्त्रस्य काश्यप ऋषिः अनुष्टुप् छन्दः शनैश्चरो देवता शं बीजं निं शक्तिः मं कीलकं समस्त पीडा परिहारार्थे शनैश्चरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
कृष्णवर्णाय तर्जनीभ्यां नमः ।
सूर्यपुत्राय मध्यमाभ्यां नमः ।
मन्दगतये अनामिकाभ्यां नमः ।
गृध्रवाहनाय कनिष्ठिकाभ्यां नमः ।
पङ्गुपादाय करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
शनैश्चराय हृदयाय नमः ।
कृष्णवर्णाय शिरसे स्वाहा ।
सूर्यपुत्राय शिखायै वषट् ।
मन्दगतये कवचाय हुम् ।
गृध्रवाहनाय नेत्रत्रयाय वौषट् ।
पङ्गुपादाय अस्त्राय फट् ।

ध्यानम् –
दोर्भिर्धनुर्द्विशिखचर्मधरं त्रिशूलं
भास्वत्किरीटमुकुटोज्ज्वलितेन्द्रनीलम् ।
नीलातपत्रकुसुमादिसुगन्धभूषं
देवं भजे रविसुतं प्रणतोऽस्मि नित्यम् ॥

ओं नमो भगवते शनैश्चराय मन्दगतये सूर्यपुत्राय महाकालाग्निसदृशाय कृशदेहाय गृध्रासनाय नीलरूपाय चतुर्भुजाय त्रिनेत्राय नीलाम्बरधराय नीलमालाविभूषिताय धनुराकारमण्डले प्रतिष्ठिताय काश्यपगोत्रात्मजाय माणिक्यमुक्ताभरणाय छायापुत्राय सकलमहारौद्राय सकलजगद्भयङ्कराय पङ्गुपादाय क्रूररूपाय देवासुरभयङ्कराय सौरये कृष्णवर्णाय स्थूलरोमाय अधोमुखाय नीलभद्रासनाय नीलवर्णरथारूडाय त्रिशूलधराय सर्वजनभयङ्कराय मन्दाय दं शं नं मं हुं रक्ष रक्ष मम शत्रून् नाशय नाशय सर्वपीडा नाशय नाशय विषमस्थ शनैश्चरान् सुप्रीणय सुप्रीणय सर्वज्वरान् शमय शमय समस्तव्याधीन् मोचय मोचय मां रक्ष रक्ष समस्तदुष्टग्रहान् भक्षय भक्षय भ्रामय भ्रामय त्रासय त्रासय बन्धय बन्धय उन्मादयोन्मादय दीपय दीपय तापय तापय सर्वविघ्नान् छिन्धि छिन्धि डाकिनी शाकिनी भूतवेताल यक्ष रक्षो गन्धर्वग्रहान् ग्रासय ग्रासय भक्षय भक्षय दह दह पच पच हन हन विदारय विदारय ओं शं नं मं ह्रां फं हुं शनैश्चराय नीलाभ्रवर्णाय नीलमेखलय सौरये नमः ।

इति श्री शनैश्चर माला मन्त्रः ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments