Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मुद्राक्षमालाऽमृतपात्रविद्या
व्याघ्राजिनार्धेन्दुफणीन्द्रयुक्तम् ।
योगीन्द्रपर्जन्य मनः सरोज-
-भृङ्गं भजेऽहं हृदि दक्षिणास्यम् ॥ १ ॥
स्फुटवटनिकटस्थं स्तूयमानावभासं
पटुभुजतटबद्धव्याघ्रचर्मोत्तरीयम् ।
चटुलनिटलनेत्रं चन्द्रचूडं मुनीशं
स्फटिकपटलदेहं भावये दक्षिणास्यम् ॥ २ ॥
आवाहये सुन्दरनागभूषं
विज्ञानमुद्राञ्चित पञ्चशाखम् ।
भस्माङ्गरागेण विराजमानं
श्रीदक्षिणामूर्ति महात्मरूपम् ॥ ३ ॥
सुवर्णरत्नामलवज्रनील-
-माणिक्यमुक्तामणियुक्तपीठे ।
स्थिरो भव त्वं वरदो भव त्वं
संस्थापयामीश्वर दक्षिणास्य ॥ ४ ॥
श्रीजाह्नवीनिर्मलतोयमीश
चार्घ्यार्थमानीय समर्पयिष्ये ।
प्रसन्नवक्त्राम्बुजलोकवन्द्य
कालत्रयेहं तव दक्षिणास्य ॥ ५ ॥
कस्तूरिकामिश्रमिदं गृहाण
रुद्राक्षमालाभरणाङ्किताङ्ग ।
कालत्रयाबाध्यजगन्निवास
पाद्यं प्रदास्ये हृदि दक्षिणास्य ॥ ६ ॥
मुदाहमानन्द सुरेन्द्रवन्द्य
गङ्गानदीतोयमिदं हि दास्ये ।
तवाधुना चाचमनं कुरुष्व
श्रीदक्षिणामूर्ति गुरुस्वरूप ॥ ७ ॥
सर्पिः पयो दधि मधु शर्कराभिः प्रसेचये ।
पञ्चामृतमिदं स्नानं दक्षिणास्य कुरु प्रभो ॥ ८ ॥
वेदान्तवेद्याखिलशूलपाणे
ब्रह्मामरोपेन्द्रसुरेन्द्रवन्द्य ।
स्नानं कुरुष्वामलगाङ्गतोये
सुवासितेस्मिन् कुरु दक्षिणास्य ॥ ९ ॥
कौशेयवस्त्रेण च मार्जयामि
देवेश्वराङ्गानि तवामलानि ।
प्रज्ञाख्यलोकत्रितयप्रसन्न
श्रीदक्षिणास्याखिललोकपाल ॥ १० ॥
सुवर्णतन्तूद्भवमग्र्यमीश
यज्ञोपवीतं परिधत्स्वदेव ।
विशालबाहूदरपञ्चवक्त्र
श्रीदक्षिणामूर्ति सुखस्वरूप ॥ ११ ॥
कस्तूरिकाचन्दनकुङ्कुमादि-
-विमिश्रगन्धं मणिपात्रसंस्थम् ।
समर्पयिष्यामि मुदा महात्मन्
गौरीमनोवस्थितदक्षिणास्य ॥ १२ ॥
शुभ्राक्षतैः शुभ्रतिलैः सुमिश्रैः
सम्पूजयिष्ये भवतः परात्मन् ।
तदेकनिष्ठेन समाधिनाथ
सदाहमानन्द सुदक्षिणास्य ॥ १३ ॥
सुरत्नदाङ्गेय किरीटकुण्डलं
हाराङ्गुलीकङ्कणमेखलावृतम् ।
खण्डेन्दुचूडामृतपात्रयुक्तं
श्रीदक्षिणामूर्तिमहं भजामि ॥ १४ ॥
मुक्तामणिस्थापितकर्बुरप्र-
-सूनैः सदाहं परिपूजयिष्ये ।
कुक्षिप्रपुष्टाखिललोकजाल
श्रीदक्षिणामूर्ति महत्स्वरूप ॥ १५ ॥
दशाङ्गधूपं परिकल्पयामि
नानासुगन्धान्वितमाज्ययुक्तम् ।
मेधाख्य सर्वज्ञ बुधेन्द्रपूज्य
दिगम्बर स्वीकुरु दक्षिणास्य ॥ १६ ॥
आज्येन संमिश्रमिमं प्रदीपं
वर्तित्रयेणान्वितमग्नियुक्तम् ।
गृहाण योगीन्द्र मयार्पितं भोः
श्रीदक्षिणामूर्तिगुरो प्रसीद ॥ १७ ॥
शाल्योदनं निर्मलसूपशाक-
-भक्ष्याज्यसम्युक्तदधिप्रसिक्तम् ।
कपित्थ सद्राक्षफलैश्च चूतैः
सापोशनं भक्षय दक्षिणास्य ॥ १८ ॥
गुडाम्बु सत्सैन्धवयुक्ततक्रं
कर्पूरपाटीर लवङ्गयुक्तम् ।
यज्ञेश कामान्तक पुण्यमूर्ते
पिबोदकं निर्मल दक्षिणास्य ॥ १९ ॥
खमार्गनिर्यज्जलमाशु देव
कुरूत्तरापोशनमभ्रकेश ।
प्रक्षालनं पाणियुगस्य शर्व
गण्डूषमापादय दक्षिणास्य ॥ २० ॥
सम्यग्जलेनाचमनं कुरुष्व
स्वस्थो भव त्वं मम चाग्रभागे ।
चिदाकृते निर्मलपूर्णकाम
विनिर्मितं पावन दक्षिणास्य ॥ २१ ॥
ताम्बूलमद्य प्रतिसङ्गृहाण
कर्पूरमुक्तामणिचूर्णयुक्तम् ।
सुपर्णपर्णान्वितपूगखण्ड-
-मनेकरूपाकृति दक्षिणास्य ॥ २२ ॥
नीराजनं निर्मलपात्रसंस्थं
कर्पूरसन्दीपितमच्छरूपम् ।
करोमि वामेश तवोपरीदं
व्योमाकृते शङ्कर दक्षिणास्य ॥ २३ ॥
ततः परं दर्पणमीश पश्य
स्वच्छं जगद्दीपितचक्रभास्वत् ।
माणिक्यमुक्तामणिहेमनील-
-विनिर्मितं पावन दक्षिणास्य ॥ २४ ॥
मन्दारपङ्केरुहकुन्दजाती-
-सुगन्धपुष्पाञ्जलिमर्पयामि ।
त्रिशूल ढक्काञ्चित पाणियुग्म
ते दक्षिणामूर्ति विरूपधारिन् ॥ २५ ॥
प्रदक्षिणं सम्यगहं करिष्ये
कालत्रये त्वां करुणाभिरामम् ।
शिवामनोनाथ ममापराधं
क्षमस्व यज्ञेश्वर दक्षिणास्य ॥ २६ ॥
नमो नमः पापविनाशनाय
नमो नमः कञ्जभवार्चिताय ।
नमो नमः कृष्णहृदिस्थिताय
श्रीदक्षिणामूर्ति महेश्वराय ॥ २७ ॥
इति श्रीविज्ञानेन्द्र विरचितं श्री दक्षिणामूर्ति मानसिक पूजा स्तोत्रम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.