Site icon Stotra Nidhi

Narayaneeyam Dasakam 9 – नारायणीयं नवमदशकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

नारायणीयं नवमदशकम् (९) – ब्रह्मणः तपः तथा लोकसृष्टिः

स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
कुतः स्विदिदमम्बुधावुदितमित्यनालोकयन् ।
तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन-
-श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ ९-१ ॥

महार्णवविघूर्णितं कमलमेव तत् केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ ९-२ ॥

अमुष्य हि सरोरुहः किमपि कारणं सम्भवे-
-दिति स्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान् प्रौढधीः
त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥ ९-३ ॥

ततः सकलनालिकाविवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ९-४ ॥

शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
प्रबोध विशदीकृतः स खलु पद्मिनीसम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ९-५ ॥

किरीटमकुटोल्लसत्कटकहारकेयूरयु-
-ङ्मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् ।
कलायकुसुमप्रभं गलतलोल्लसत् कौस्तुभं
वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥ ९-६ ॥

श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा-
-मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ९-७ ॥

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
-त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ९-८ ॥

शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
-नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ ९-९ ॥

तवैव कृपया पुनः सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ ९-१० ॥

इति नवमदशकं समाप्तम् ॥

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments