Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सप्तशती प्रथम-मध्यम-उत्तम-चरित्रस्थ मन्त्राणां, ब्रह्म-विष्णु-रुद्राः ऋषयः, गायत्र्युष्णिगनुष्टुभश्छन्दासि, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवताः, नन्दा-शाकम्भरी-भीमाः शक्तयः, रक्तदन्तिका-दुर्गा-भ्रामर्यो बीजानि, अग्नि-वायु-सूर्यास्तत्त्वानि, ऋग्यजुःसामवेदा ध्यानानि, मम सकलकामनासिद्धये महाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी प्रीत्यर्थे जपे विनियोगः ।
॥ अथ न्यासः ॥
करन्यासः –
ओं खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥
अङ्गुष्ठाभ्यां नमः ।
ओं शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥
तर्जनीभ्यां नमः ।
ओं प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥
मध्यमाभ्यां नमः ।
ओं सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥
अनामिकाभ्यां नमः ।
ओं खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥
कनिष्ठिकाभ्यां नमः ।
ओं सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तु ते ॥
करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥
हृदयाय नमः ।
ओं शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥
शिरसे स्वाहा ।
ओं प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥
शिखायै वषट् ।
ओं सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥
कवचाय हुम् ।
ओं खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥
नेत्रत्रयाय वौषट् ।
ओं सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तु ते ॥
अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम् –
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
लमित्यादि पञ्चपूजा –
लं पृथिवीतत्त्वात्मिकायै चण्डिकायै नमः गन्धं परिकल्पयामि ।
हं आकाशतत्त्वात्मिकायै चण्डिकायै नमः पुष्पं परिकल्पयामि ।
यं वायुतत्त्वात्मिकायै चण्डिकायै नमः धूपं परिकल्पयामि ।
रं तेजस्तत्त्वात्मिकायै चण्डिकायै नमः दीपं परिकल्पयामि ।
वं अमृततत्त्वात्मिकायै चण्डिकायै नमः अमृतनैवेद्यं परिकल्पयामि ।
सं सर्वतत्त्वात्मिकायै चण्डिकायै नमः सर्वोपचारान् परिकल्पयामि ।
सम्पूर्ण श्री दुर्गा सप्तशती पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.