Site icon Stotra Nidhi

Sri Krishna Stotram (Radha Krutam) – श्री कृष्ण स्तोत्रम् (राधा कृतम्)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

गोलोकनाथ गोपीश मदीश प्राणवल्लभ ।
हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ॥ १ ॥

गोपेश गोसमूहेश यशोदाऽऽनन्दवर्धन ।
नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ॥ २ ॥

शतमन्योर्मन्युभग्न ब्रह्मदर्पविनाशक ।
कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते ॥ ३ ॥

शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर ।
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ॥ ४ ॥

चराचरतरोर्बीज गुणातीत गुणात्मक ।
गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ॥ ५ ॥

अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक ।
तपस्तपस्विंस्तपसां बीजरूप नमोऽस्तु ते ॥ ६ ॥

यदनिर्वचनीयं च वस्तु निर्वचनीयकम् ।
तत्स्वरूप तयोर्बीज सर्वबीज नमोऽस्तु ते ॥ ७ ॥

अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः ।
यस्य पादार्चनान्नित्यं पूज्यास्तस्मै नमो नमः ॥ ८ ॥

स्पर्शेन यस्य भृत्यानां ध्यानेन च दिवानिशम् ।
पवित्राणि च तीर्थानि तस्मै भगवते नमः ॥ ९ ॥

इत्येवमुक्त्वा सा देवी जले संन्यस्य विग्रहम् ।
मनःप्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥ १० ॥

राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
हरिभक्तिं च दास्यं च लभेद्राधागतिं ध्रुवम् ॥ ११ ॥

विपत्तौ यः पठेद्भक्त्या सद्यः सम्पत्तिमाप्नुयात् ।
चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ॥ १२ ॥

बन्धुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् ।
चिन्ताग्रस्तः पठेद्भक्त्या परां निर्वृतिमाप्नुयात् ॥ १३ ॥

पतिभेदे पुत्रभेदे मित्रभेदे च सङ्कटे ।
मासं भक्त्या यदि पठेत् सद्यः सन्दर्शनं लभेत् ॥ १४ ॥

भक्त्या कुमारी स्तोत्रं च शृणुयाद्वत्सरं यदि ।
श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद्ध्रुवम् ॥ १५ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे सप्तविंशोऽध्याये राधाकृतं श्री कृष्ण स्तोत्रम् ॥


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments