Site icon Stotra Nidhi

Sri Hanuman Tandav Stotram – श्री हनुमत् ताण्डव स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् ।
रक्ताङ्गरागशोभाढ्यं शोणपुच्छं कपीश्वरम् ॥

भजे समीरनन्दनं सुभक्तचित्तरञ्जनं
दिनेशरूपभक्षकं समस्तभक्तरक्षकम् ।
सुकण्ठकार्यसाधकं विपक्षपक्षबाधकं
समुद्रपारगामिनं नमामि सिद्धकामिनम् ॥ १ ॥

सुशङ्कितं सुकण्ठमुक्तवान् हि यो हितं वच-
-स्त्वमाशु धैर्यमाश्रयात्र वो भयं कदापि न ।
इति प्लवङ्गनाथभाषितं निशम्य वानरा-
-ऽधिनाथ आप शं तदा स रामदूत आश्रयः ॥ २ ॥

सुदीर्घबाहुलोचनेन पुच्छगुच्छशोभिना
भुजद्वयेन सोदरौ निजांसयुग्ममास्थितौ ।
कृतौ हि कोसलाधिपौ कपीशराजसन्निधौ
विदेहजेशलक्ष्मणौ स मे शिवं करोत्वरम् ॥ ३ ॥

सुशब्दशास्त्रपारगं विलोक्य रामचन्द्रमाः
कपीशनाथसेवकं समस्तनीतिमार्गगम् ।
प्रशस्य लक्ष्मणं प्रति प्रलम्बबाहुभूषितः
कपीन्द्रसख्यमाकरोत् स्वकार्यसाधकः प्रभुः ॥ ४ ॥

प्रचण्डवेगधारिणं नगेन्द्रगर्वहारिणं
फणीशमातृगर्वहृद्दशास्यवासनाशकृत् ।
विभीषणेन सख्यकृद्विदेहजातितापहृत्
सुकण्ठकार्यसाधकं नमामि यातुघातुकम् ॥ ५ ॥

नमामि पुष्पमालिनं सुवर्णवर्णधारिणं
गदायुधेन भूषितं किरीटकुण्डलान्वितम् ।
सुपुच्छगुच्छतुच्छलङ्कदाहकं सुनायकं
विपक्षपक्षराक्षसेन्द्रसर्ववंशनाशकम् ॥ ६ ॥

रघूत्तमस्य सेवकं नमामि लक्ष्मणप्रियं
दिनेशवंशभूषणस्य मुद्रिकाप्रदर्शकम् ।
विदेहजातिशोकतापहारिणं प्रहारिणं
सुसूक्ष्मरूपधारिणं नमामि दीर्घरूपिणम् ॥ ७ ॥

नभस्वदात्मजेन भास्वता त्वया कृतामहासहा-
-यता यया द्वयोर्हितं ह्यभूत् स्वकृत्यतः ।
सुकण्ठ आप तारकां रघूत्तमो विदेहजां
निपात्य वालिनं प्रभुस्ततो दशाननं खलम् ॥ ८ ॥

इमं स्तवं कुजेऽह्नि यः पठेत् सुचेतसा नरः
कपीशनाथसेवको भुनक्ति सर्वसम्पदः ।
प्लवङ्गराजसत्कृपाकटाक्षभाजनः सदा
न शत्रुतो भयं भवेत्कदापि तस्य नुस्त्विह ॥ ९ ॥

नेत्राङ्गनन्दधरणीवत्सरेऽनङ्गवासरे ।
लोकेश्वराख्यभट्टेन हनुमत्ताण्डवं कृतम् ॥ १० ॥

इति श्री हनुमत् ताण्डव स्तोत्रम् ॥


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments