Site icon Stotra Nidhi

Sri Dakshinamurthy Ashtottara Shatanama Stotram – श्री दक्षिणामूर्त्यष्टोत्तरशतनाम स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ध्यानम् –
व्याख्यारुद्राक्षमाले कलशसुरभिते बाहुभिर्वामपादं
बिभ्राणो जानुमूर्ध्ना वटतरुनिवृतावस्यधो विद्यमानः ।
सौवर्णे योगपीठे लिपिमयकमले सूपविष्टस्त्रिणेत्रः
क्षीराभश्चन्द्रमौलिर्वितरतु नितरां शुद्धबुद्धिं शिवो नः ॥

स्तोत्रम् –
विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् ।
रत्नालङ्कृतसर्वाङ्गो रत्नमाली जटाधरः ॥ १ ॥

गङ्गाधार्यचलावासी सर्वज्ञानी समाधिधृत् ।
अप्रमेयो योगनिधिस्तारको भक्तवत्सलः ॥ २ ॥

ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरान्तकः ।
उक्षवाहश्चर्मवासाः पीताम्बरविभूषणः ॥ ३ ॥

मोक्षसिद्धिर्मोक्षदायी दानवारिर्जगत्पतिः ।
विद्याधारी शुक्लतनुः विद्यादायी गणाधिपः ॥ ४ ॥

पापापस्मृतिसंहर्ता शशिमौलिर्महास्वनः ।
सामप्रियः स्वयं साधुः सर्वदेवैर्नमस्कृतः ॥ ५ ॥

हस्तवह्निधरः श्रीमान् मृगधारी च शङ्करः ।
यज्ञनाथः क्रतुध्वंसी यज्ञभोक्ता यमान्तकः ॥ ६ ॥

भक्तानुग्रहमूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोद्धूलितसर्वाङ्गोऽप्यक्षमालाधरो महान् ॥ ७ ॥

त्रयीमूर्तिः परं ब्रह्म नागराजैरलङ्कृतः ।
शान्तरूपो महाज्ञानी सर्वलोकविभूषणः ॥ ८ ॥

अर्धनारीश्वरो देवो मुनिसेव्यः सुरोत्तमः ।
व्याख्यानदेवो भगवान् अग्निचन्द्रार्कलोचनः ॥ ९ ॥

जगत्स्रष्टा जगद्गोप्ता जगद्ध्वंसी त्रिलोचनः ।
जगद्गुरुर्महादेवो महानन्दपरायणः ॥ १० ॥

जटाधारी महावीरो ज्ञानदेवैरलङ्कृतः ।
व्योमगङ्गाजलस्नाता सिद्धसङ्घसमर्चितः ॥ ११ ॥

तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ।
व्योममूर्तिश्च भक्तानामिष्टकामफलप्रदः ॥ १२ ॥

वीरमूर्तिर्विरूपी च तेजोमूर्तिरनामयः ।
वेदवेदाङ्गतत्त्वज्ञश्चतुष्षष्टिकलानिधिः ॥ १३ ॥

भवरोगभयध्वंसी भक्तानामभयप्रदः ।
नीलग्रीवो ललाटाक्षो गजचर्मा च ज्ञानदः ॥ १४ ॥

अरोगी कामदहनस्तपस्वी विष्णुवल्लभः ।
ब्रह्मचारी च संन्यासी गृहस्थाश्रमकारणः ॥ १५ ॥

दान्तशमवतां श्रेष्ठः सत्त्वरूपदयानिधिः ।
योगपट्टाभिरामश्च वीणाधारी विचेतनः ॥ १६ ॥

मन्त्रप्रज्ञानुगाचारो मुद्रापुस्तकधारकः ।
रागहिक्कादिरोगाणां विनिहन्ता सुरेश्वरः ॥ १७ ॥

इति श्री दक्षिणामूर्त्यष्टोत्तरशतनाम स्तोत्रम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments