Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रलम्बितजटाबद्धं चन्द्ररेखावतंसकम् ।
नीलग्रीवं शरच्चन्द्रचन्द्रिकाभिर्विराजितम् ॥ १ ॥
गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम् ।
सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥ २ ॥
गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् ।
सर्वाभरणसम्युक्तं सर्वलक्षणसम्युतम् ॥ ३ ॥
वीरासने समासीनं वेदयज्ञोपवीतिनम् ।
भस्मधाराभिरामं तं नागाभरणभूषितम् ॥ ४ ॥
व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् ।
सर्वेषां प्राणिनामात्मज्ञानापस्मारपृष्ठतः ॥ ५ ॥
विन्यस्तचरणं सम्यग् ज्ञानमुद्राधरं हरम् ।
सर्वविज्ञानरत्नानां कोशभूतं सुपुस्तकम् ॥ ६ ॥
दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि ।
स्वात्मभूतपरानन्दपराशक्त्यर्धविग्रहम् ॥ ७ ॥
धर्मरूपवृषोपेतं धार्मिकैर्वेदपारगैः ।
मुनिभिः संवृतं मायावटमूलाश्रितं शुभम् ॥ ८ ॥
ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् ।
उत्पत्त्यादिविनिर्मुक्तमोङ्कारकमलासनम् ॥ ९ ॥
स्वात्मविद्याप्रदानेन सदा संसारमोचकम् ।
रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥ १० ॥
उपासकानां सर्वेषामभीष्टसकलप्रदम् ।
दक्षिणामूर्तिदेवाख्यं जगत्सर्गादिकारणम् ॥ ११ ॥
समागत्य महाभक्त्या दण्डवत्पृथिवीतले ।
प्रणम्य बहुशो देवं समाराध्य यथाबलम् ॥ १२ ॥
रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति ।
उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥ १३ ॥
इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे चतुर्थोऽध्याये श्री दक्षिणामूर्ति स्तोत्रम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.